Table of Contents

<<6-1-80 —- 6-1-82>>

6-1-81 क्षय्यजय्यौ शक्यार्थे

प्रथमावृत्तिः

TBD.

काशिका

क्षि जि इत्येतयोर् धात्वोः यति रत्यये परतः शक्यार्थे गम्यमाने एकारस्य अयादेशो निपात्यते। शक्यः क्षेतुम् क्षय्यः। शक्यो जेतुम् जय्यः। शक्यार्थे इति किम्? क्षेयं पापम्। जेयो वृषलः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

66 क्षय्यजय्यौ शक्यार्थे। शक्यार्थे क्षय्यजय्यशब्दौ वाचकतया वर्तेते इत्यर्थः। ननु किमपि कार्यं विधेयमत्र न दृश्यते इत्यत आह–यान्तेति। प्रातिस्विकविधिं विंना सिद्धप्रक्रियस्य शब्दस्वरूपस्य निर्देशो निपातनम्। ततश्च शक्यार्थके यादौ प्रत्यये परे `क्षि क्षये'`जि जये'इति धातोरेचोऽयिति यान्तादेशः स्यादिति विधानमत्र फलति। शक्यार्थे क्षिज्योर्यान्त इति प्रातिस्विकविधौ गौरवादेवं निपातनमिति भावः। क्षय्यमिति। `कृत्या'इत्यधिकारे क्षिधातोरचो यदिति यत्प्रत्ययः। स च `शकि लिङ् चे'ति शक्यार्थः। शक्यार्थे लिङ् स्याच्चात्कृत्या इति तदर्थः। `सार्वधातुकार्धधातुकयो'रिति इकारस्य गुण एकारः। तस्या।ञच्परकत्वाऽभावादप्राप्तोऽयादेशोऽत्र निपात्यते। जय्यमित्यपि पूर्ववत्। शक्यार्थे किमिति। `शक्यार्थे' इत्यस्य किं प्रयोजनमिति प्रश्नः। क्षेतुमित्यादि। क्षेतुं योग्यं क्षेयं पापम्। जेतुं योग्यं जेयं मन इत्यन्वयः। `अर्हे कृत्यतृचश्चे'ति यत्। स च न शक्यार्थक इति नात्र यान्तादेश इत्यर्थः।

तत्त्वबोधिनी

55 क्षय्यमिति। `शकिलिङ् चे'ति यत्। चात्कृत्याः। क्षेयमिति। `अर्हे कृत्यतृचश्चे'ति यत्।

Satishji's सूत्र-सूचिः

TBD.