TBD.
णौ इति वर्तते, विभाषा इति च। हेतुरिह पारिभाषिकः स्वतन्त्रस्य प्रयोजकः, ततो यद् भयम्, स यस्य भयस्य साक्षाद् हेतुः, तद्भयम् हेतुभयम्। तत्र वर्तमानस्य ञिभी भये इत्यस्य धातोः णौ परतः विभाषा आकारादेशो भवति। मुण्डो भापयते, मुण्डो भीषयते। जटिलो भापयते, जटिलो भीषयते। भीस्म्योर् हेतुभये 1-3-38 इत्यात्मनेपदम्। भियो हेतुभये षुक् 7-3-40। स च आत्त्वपक्षे न भवति। लिभियोः ईकारप्रश्लेषनिर्देशादीकारान्तस्य भियः षुक् विधीयते। हेतुभये इति किम्? कुञ्चिकयैनं भाययति। अत्र हि कुञ्चिकातो भयं करणात्, न हेतोर् देवदत्तात्।
TBD.
–
421 बिभेतेर्हेतुभये। `आदेच उपदेशे' इत्यत एच इति,आदिति चानुवर्तते। `वभाषा लीयते' रित्यतो विभाषेति, `चिस्फुरो'रित्यतो णाविति च। हेतुभयं - प्रयोजकाद्भयम्। तदाह – बिभेतेरेच इत्यादिना।
369 बिभेतेर्हेतुभये। हेतुः– प्रयोजकः। इह `आदेच उपदेशे' इत्यत एच आदित्यनुवर्तते, `विभाषा लीयते'रित्यतो विभाषा, `चिस्फुरो'रित्यतो णाविति च। तदाह- - बिभेतेरेच इत्यादि।
TBD.