TBD.
णौ इति वर्तते। वी गतिप्रजनकान्त्यसनखादनेषु इत्यस्य धातोः प्रजने वर्तमानस्य णौ परतः विभाषा आकारादेशो भवति। पुरोवातो गः प्रवापयति, पुरोवातो गाः प्रवाययति। गर्भं ग्राहयति इत्यर्थः। प्रजनो हि जन्मन उपक्रमो गर्भग्रहणम्।
TBD.
–
430 प्रजन वीयतेः। `आदेच उपदेशे' इत्यस्मादादेच इति,`चिस्फुरो'रित्तो णाविति, `विभाषा लीयतेः' इत्यतो विभाषेति चानुवर्तते। तदाह – अस्यैच इत्यादि। `वीयते'रिति न स्यना निर्देशः, `वी गतिप्रजनस्थानार्जनोपार्जनेषु' केचित्। वस्तुतस्तु व्येञो न ग्रहणं, तस्य प्रजनार्थकत्वाऽभावात् , तस्य णौ `शाच्छासे'ति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाऽभावाच्चेति शब्देन्दुशेखरे प्रपञ्चितम्। गर्भं ग्राहयतीति। पुरोवातकाले गावो गर्भं गृह्णन्तीति प्रसिद्धिः। अथ `गुहू संवरणे' इत्यस्य गुणनिमित्तेऽजादौ प्रत्यये परे उपधाया ऊत्त्वविधिं स्मारयति– ऊदुपधाया गोह इति. गूहयतीति। लघूपधगुणापवाद ऊत्त्वमिति भावः।
374 प्रजने। `वीयते' रितिवी गतिप्रजनादौ,आदादिकस्य यका निर्देशः। अत्र केचिदुत्प्रेक्षयन्ति–वीतेरिति वक्तव्ये यका निर्देशाद्वेञोऽपि ग्रहणम्, तस्यापियकि संप्रसारणे वीधातुना समानरूपत्वात्। अतो द्वयोरपि प्रजनेऽर्थे आत्वं वा स्यात्। तत्र आत्वे, तदभावे च यद्यपि व्येञः व्याययतीति रूपं तुल्यं, `शाच्छासे'ति पुकोऽपवादतया युग्विधानात्, तथापि णिजन्तात्क्विप– व्याः व्यौ व्याः। आत्वाऽभावपक्षे व्यैः व्यायौ व्याय इत्यस्ति विशेषः। विभाषाविधानसामथ्र्यात्पक्षेऽपि `आदेच उपदेशेऽशिती'ति न प्रवर्तते। अनेकार्थत्वाच्च धातूनां व्ययतेरपि प्रयोजनोऽर्थ इति।
TBD.