Table of Contents

<<6-1-53 —- 6-1-55>>

6-1-54 चिस्फुरोर् णौ

प्रथमावृत्तिः

TBD.

काशिका

चिञ् स्फुर इत्येतयोः धात्वोः णौ परतः एचः स्थाने विभाष आकारादेशो भवति। चापयति, चययति। स्फारयति, स्फोरयति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

396 चिस्फुरोर्णौ। `आदेच उपदेशे' इत्यत आदिति, `विभाषा लीयते'रित्यतो विभाषेति चानुवर्तते इति मत्वा शेषं पूरयति– आत्त्वं वा स्यादिति। चिञो णिचि आत्त्वे चा इ इति स्थिते –

तत्त्वबोधिनी

346 चिस्फुरोर्णौ। `आदेच उपदेशे' इत्यत आदित्यनुवर्तते `विभाषा लीयतेः' इत्यतो विभाषाग्रहणं च। तदाह– आत्वं वा स्यादिति।

Satishji's सूत्र-सूचिः

TBD.