Table of Contents

<<6-1-47 —- 6-1-49>>

6-1-48 क्रीइङ्जीनां णौ

प्रथमावृत्तिः

TBD.

काशिका

डुक्रीञ् द्रव्यविनिमये, इङध्ययने जि जये इत्येतेषां धातूनां एचः स्थाने णौ परतः आकारादेशो भवति। क्रापयति। अध्यापयति। जापयति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

428 क्रीङ्जीनां णौ। `डु क्रीञ् द्रव्यविनिमये, `इङ् अध्ययने', `जि जये' एषां द्वन्द्वः। एच आत्त्वमिति। `आदेच उपदेशे' इत्तस्तदनुवृत्तेरिति भावः। क्रापयति जापयतीति। आत्त्वे पुक् लुङि अचिक्रपत् अजीजपत्। अध्यापयतीति। इङ आत्त्वे पुकि रूपम्। अधि इ इ अ त् इति स्थिते।

तत्त्वबोधिनी

372 क्रीङ्जीनाम्। `डुक्रीञ् द्रव्य विनिमये'। `इङ् अध्ययने'। `जि जये'। अचिक्रपत्। अध्यजीगपदिति। नाऽत्र णिज्निमित्तस्य गाङो द्वित्वे कर्तव्ये स्थानिवद्भावो, निषेधो वा शङ्क्यः, यत्राऽभ्यासोत्तरखण्डे आद्योऽवर्णोऽस्ति तत्रैव स्थानिवद्भावो, निषेधो वेत्युक्तत्वात्। इह तु गाङ् पूर्वं सतिहि द्वित्वे `अजादेर्द्वितीयस्य' इति णिच एव द्वित्वं भवेत्ततश्चह्परणिज्निमित्तो गाङ्, ततश्च प्रक्रयायां परिनिष्ठितरूपे वा अवर्णवदुत्तरखण्डं दर्लुभं, कीर्तयतिसाम्यादिति नोक्तशङ्कावकाशः।अध्यापिपदिति। पिशब्दस्यात्र दित्वम्।

Satishji's सूत्र-सूचिः

TBD.