TBD.
अस्य वयो यकारस्य किति लिटि परतो वकारादेशो भवति अन्यतरस्याम्। ऊवतुः, ऊवुः। ऊयतुः, ऊयुः। किति इति किम्? उवाय। उवयिथ।
TBD.
–
245 वश्चास्या। `लिटि वयो यः' इत्यनुवर्तते। तदाह–वयोयस्येत्यादि। उवयिथेति। अकित्त्वान्न वः। अजन्तत्वादकारवत्त्वाच्च थलि इड्विकल्पमाशङ्क्याह- - वयेस्तासावभावात्थलि नित्यमिडिति। वयेर्लिट\उfffदेव विहितत्वेन तासावभवात् `अचस्तास्व'दिति `उपदेशेऽत्वतः' इति च इण्निषेधऽप्रसक्त्या क्रादिनयिमान्नित्यनिडित्यर्थः। `यस्तासावस्ति नित्याऽनिट् चे'ति भाष्यम्। ऊयथुः- ऊवथुः ऊय-ऊव। उवाय, उवय, ऊयिव-ऊविव, ऊयिम–ऊविम। ननु वयेरञित्त्वात्कथमुभयपदत्वमित्यत आह– स्थानिवद्भावेनेति। ऊये ऊवे इति। `वश्चास्यान्यतरस्या'मिति वत्वविकल्पः। वत्वाऽभावे `लिटि वयो यः' इति यकारस्य संप्रसारणनिषेधः। वकारस्य `ग्रहिज्ये'ति, `वचिस्वपी'ति वा संप्रसारणम्। ऊयाते ऊयिरे। ऊयिषे ऊयाथे [ऊयिढ्वे] ऊयिध्वे। ऊये उयिवहे ऊयिमहे। क्रादिनियमादिट्। एवम् ऊवाते ऊविरे इत्यादि। वयादेशाऽभावे इति। यजादित्वात् `लिट\उfffद्भ्यासस्ये'ति `वचिस्वपी'ति च संप्रसारणे प्राप्ते सती'ति शेषः।
216 वश्चास्या।`अस्ये'त्यनेन `वयो यः' इति परामृश्यते। तदाह– वयो यस्येति। `वो वा किती'त्येव सुवचं, लिटि वयो यः' इति प्रकृतत्वात्। `उपदेशेऽत्वतः' इति निषेधमाशङ्क्याह— वयस्तासावभावादिति। ननु स्थानिनस्तासौ विद्यमानत्वात् स्थानिवद्भावेन तासौ विद्यमानत्वं सुलभमिति चेत्। अत्राहुः— शास्त्रीयकार्ये हि स्थानिवद्भावो न तु लौकिके। `अचस्तास्व'दिति निषेधस्य शास्त्रीयत्वेऽपि सोऽत्र नातिदिश्यते, `अच' इत्युक्तेरल्विधित्वादिति।
TBD.