TBD.
विभाषा इत्यनुवर्तते। श्रा पाके इत्येतस्य धातोः ण्यन्तस्य अण्यन्तस्य च पाके ऽभिधेये क्तप्रत्यये परतः शृभावो निपात्यते विभाषा। शृतं क्षीरम्। शृतं हविः। व्यवस्थितविभाषा च इयम्, तेन क्षीरहविषोर् नित्यं शृभावो भवति, अन्यत्र न भवति श्राणा यवागूः श्रपिता यवागूः इति। यदा अपि बाह्ये प्रयोजके द्वितीयो णिचुत्पद्यते तदा अपि निष्यते, श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेन इति। श्रातिरयम् अकर्मकः कर्मकर्तृविषयस्य पचेरर्थे वर्तते, स ण्यन्तः अपि प्राकृतं पच्यर्थमाहुः। तदत्र द्वयोरपि शृतम् इति इष्यते। शृतं क्षीरं स्वयम् एव। शृतं क्षीरं देवदत्तेन। पाकग्रहणं निपातनविषयप्रदर्शनार्थम्, तेन क्षीरहविषोरेव।
TBD.
–
874 शृतं पाके। `श्रा पाके' घटादिः। तस्माद्धेतुमण्णिचि पुकि मित्त्वाद्ध्रस्वे श्रपि इति भवतीति स्थितिः। श्रातिश्रपयत्योरिति। अण्यन्तस्य, ण्यन्तस्य च श्राधोतरित्यर्थः। क्षीरहविषोरिति। एतच्च वार्तिकाल्लभ्यते। अण्यन्तं व्याचष्टे— स्वयमेव विक्लिन्नमिति। श्राधातुरण्यन्तः पाके वर्तते। पाकश्चाऽत्र विक्लित्तिरेव विवक्षिता, न तु तदनुकूलव्यापारोऽपि। तथा च श्राधातोर्विक्लपित्तावकर्मकत्वात् `गत्यर्थाऽकर्मके'ति कर्तरि क्तः। तथा च क्षीरं विक्लित्त्याश्रय इत फलितम्। ततो णिचि विक्लित्त्यनुकूलव्यापारार्थकपचिना समानार्थकात् `श्रपी' त्यस्मात्कर्मणि क्तप्रत्यये फलितमाह— पक्वमिति। एतच्च भाष्यकैयटयोः स्पष्टम्। `क्षीराज्यहविषां शृत'मित्यमरस्य तु प्रमाद एव, `क्षीरहविषो'रिति वार्तिकविरोधात्।
718 शृतम्। श्रातिश्रपयत्योरिति। श्रापाके इत्यदादौ पठ\उfffद्ते, चुरादावपि, घटादिष्वपि पठ\उfffद्ते मित्त्वार्थम्, श्रै पाक इति च भ्वादौ , तस्यापि कृतात्वस्येह ग्रहणम्। निपातनसामत्र्याल्लक्षमप्रतिपदोक्तपरिभाषा नाश्रीयत इत्याहुः। शृभावो निपात्यत इति। `ष्यङः संप्रसारण'मिति प्रकृतमेव संप्रसारणं न विहितम्, श्रयतेरपि श्रितमेव यथा स्यादिति। अत्र `विभाषाभ्यवपूर्वस्ये'ति विभाषाऽनुवर्तते, सा च व्यवस्थिता, तेन क्षीरहविषोरेव शृभावो नित्यश्च, अन्यत्र तु नैव भवतीत्याशयेनाह–क्षीरहविषोः पाक इति। अन्यत्त्विति। शाकादि। श्रपितमिति। णौ मितां ह्यस्वः।
TBD.