Table of Contents

<<6-1-214 —- 6-1-216>>

6-1-215 विभाषा वेण्विन्धानयोः

प्रथमावृत्तिः

TBD.

काशिका

वेणु इन्धान इत्येतयोः विभाषा आदिरुदात्तो भवति। वेणुः, वेणुः। इन्धानः, इन्धानः, इन्धानः। वेणुशब्दो ऽयम् अजिवृरीभ्यो निच्च इति णुप्रत्ययान्तो नित्वान् नित्यम् आद्युदात्तः प्राप्तः। इन्धानशब्दो ऽपि यदा चानशन्तस् तदा चित्त्वदन्तोदात्तः। अथ शानजन्तस् तदा लसार्वधतुकानुदात्तत्वे कृते उदात्तनिवृत्तिस्वरेण मध्योदात्तः। तदेवम् इन्धाने सर्वथा अप्राप्तम् उदात्तत्वं पक्षे विधीयते। वेणुरिव वेणुः इत्युपमानं यदा संज्ञा भवति, तदा संज्ञायाम् उपमानम् 6-1-204 इति नित्यम् आद्युदात्तत्वम् इष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.