Table of Contents

<<6-1-202 —- 6-1-204>>

6-1-203 वृषाऽदीनां च

प्रथमावृत्तिः

TBD.

काशिका

वृषः इत्येवम् आदीनाम् आदिरुदात्तो भवति। वृषः। जनः। ज्वरः। ग्रहः। हयः। गयः। एते सर्वे पचाद्यच्प्रत्ययान्ताः। गयः इत्यत्र गायतेर् निपातनादेत्वम्। नयः। तयः। अयः। वेदः। अंशः। अशः। दवः। एते ऽपि तथा एव अच्प्रत्ययान्ताः। सूदः। इगुपधातिति कप्रत्ययान्तः। गुहा। भिदादिरङ्प्रत्ययान्तः। शमरणौ संज्ञायां सम्मतौ भावकर्मणोः। शमो भावे। रणः करमणि। अजन्तावेतौ निपातनाद् भावकर्मणोः भवतः। मन्त्रः पचाद्यजन्तः। शान्तिः इति क्तिजन्तः। कामः। यामः। घञन्तावेतौ। आरा। धारा। कारा। भिदादयः। वहः। गोचरादिषु घप्रत्ययान्तः। कल्पः। अजन्तः। पादः। घञन्तः। तत्र क्वचित् प्रत्ययस्वरः प्राप्तः, क्वचित् कर्षात्वतो घञो ऽन्त उदात्तः 6-1-159 इति। वृषादिराकृतिगणः। अविहितम् आद्युदात्तत्वं वृषादिषु द्रष्टव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.