Table of Contents

<<6-1-153 —- 6-1-155>>

6-1-154 मस्करमस्करिणौ वेणुपरिव्राजकयोः

प्रथमावृत्तिः

TBD.

काशिका

मस्कर मस्करिनित्येतौ यथासङ्ख्यं वेणौ परिव्राजके च निपात्येते। मकरशब्दो ह्यव्युत्पन्नं प्रातिपदिकम्, तस्य वेणौ अभिधेये सुट् निपात्यते, परिव्राजके त्विनिः अपि। मस्करः वेणुः। मस्करी परिव्राजकः। वेणुपरिव्राजकयोः इति किम्? मकरो ग्राहः। मकरी समुद्रः। केचित् पुनरत्र माङि उपपदे करोतेः करणे ऽच्प्रत्ययम् अपि निपातयन्तिक् माङ्श्च ह्रस्वत्वम् सुट् च। मा क्रियते येन प्रतिषिध्यते स मस्करो वेणुः। वेणुग्रहणं च प्रदर्शनार्थम् अन्यत्र अपि भवति, मस्करो दण्डः इति। परिव्राजके अपि माङि उपपदे करोतेस्ताच्छील्ये इनिर्निपात्यते, माङो ह्रस्वत्वं सुट् च तथा एव। माकरणशीलो मस्करी कर्मापवादित्वात् परिव्राज्क उच्यते। स ह्येवम् आह मा कुरुत कर्माणि शान्तिर्वः श्रेयसी इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1053 मस्करमस्करिणौ। यथासंख्यमन्वयः। मस्करिग्रहणात्परिव्राजक एव मस्करिशब्दः, अन्यत्र तु मकरीत्येवेत्याहुः।

तत्त्वबोधिनी

879 मस्कर। मस्करशब्दादिनिना मत्वर्थीयेनेष्टसिद्धौ मस्करिग्रहणं `परिव्राजक एवायं प्रयोगो यथा स्या'दित्येवमर्थमित्याहुः।

Satishji's सूत्र-सूचिः

TBD.