Table of Contents

<<6-1-152 —- 6-1-154>>

6-1-153 प्रस्कण्वहरिश्चन्द्रावृषी

प्रथमावृत्तिः

TBD.

काशिका

प्रस्कण्व हरिश्चन्द्र इति सुट् निपात्यते ऋषी चेदभिधेयौ भवतः। प्रस्कण्व ऋषिः। हरिश्चन्द्र ऋषिः। हरिश्चन्द्रग्रहणम् अमन्त्रार्थम्। ऋषी इति किम्? प्रकण्वो देशः। हरिचन्द्रो माणवकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1052 प्रस्कण्वहरिश्चन्द्रावृषी। अमन्त्रार्थमिति। मन्त्रे तु `ह्यस्वाच्चन्द्रोत्तरपदे मन्त्रे' इति पूर्वसूत्रेणैव सिद्धमिति भावः। तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते।

तत्त्वबोधिनी

878 अमन्त्रार्तमिति। मन्त्रे तु `ह्यस्वाच्चन्द्रोत्तरपदे मन्त्रे'इत्यनेनैव सिद्ध्यतीति भावः।

Satishji's सूत्र-सूचिः

TBD.