Table of Contents

<<6-1-152 —- 6-1-154>>

6-1-153 प्रस्कण्वहरिश्चन्द्रावृषी

प्रथमावृत्तिः

TBD.

काशिका

प्रस्कण्व हरिश्चन्द्र इति सुट् निपात्यते ऋषी चेदभिधेयौ भवतः। प्रस्कण्व ऋषिः। हरिश्चन्द्र ऋषिः। हरिश्चन्द्रग्रहणम् अमन्त्रार्थम्। ऋषी इति किम्? प्रकण्वो देशः। हरिचन्द्रो माणवकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1052 प्रस्कण्वहरिश्चन्द्रावृषी। अमन्त्रार्थमिति। मन्त्रे तु `ह्यस्वाच्चन्द्रोत्तरपदे मन्त्रे' इति पूर्वसूत्रेणैव सिद्धमिति भावः। तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते।

तत्त्वबोधिनी

878 अमन्त्रार्तमिति। मन्त्रे तु `ह्यस्वाच्चन्द्रोत्तरपदे मन्त्रे'इत्यनेनैव सिद्ध्यतीति भावः।

Satishji's सूत्र-सूचिः

TBD.