Table of Contents

<<6-1-149 —- 6-1-151>>

6-1-150 विष्किरः शुकुम्निर्विकिरो वा

प्रथमावृत्तिः

TBD.

काशिका

विष्किरः इति किरतेः विपूर्वस्य इगुपधज्ञाप्रीकिरः कः 3-1-135 इति कप्रत्यये विहिते सुट् निपात्यते शुकुनिश्चेद् भवति। विकिरशब्दाभिधेयो वा शकुनिर् भवति। सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते। विष्किरो वा शकुनौ इति व ग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणम् इह तस्य अपि शकुनेरन्यत्र प्रयोगो म भूत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1256 हलः परस्य तद्धितयकारस्योपधाभूतस्य सोप ईति परे. गार्गी..

बालमनोरमा

1050 विष्किरः। विकिरतीति विकारः। `कृ? विक्षेपे' `इगुपधज्ञे'ति कः। शकुनौ गम्ये सुड्वा, `परिनिविभ्यः' इति षत्वम्। `नगौकोवाजिविकिरविविष्करपतत्रयः' इत्यमरः। वावचनेनैवेति। वृत्तिग्रन्थे `विष्किरः शकुनौ विकिरो वे'ति सूत्रपाठः। तत्र वाग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणं विष्किरो विकिर इति शकुनावेवेति नियमार्थम्। अतः शकुनेरन्यत्र उभयोरपि शब्दयोः प्रयोगो नास्तीति लभ्यत इत्यर्थः। भाष्ये हि `विष्किरः शकुनौ वे'ति सूत्रं पठित्वा वाग्रहणेन सुड्विकल्पः, नतु शकुनेरन्यत्र विकिरशब्दस्य प्रयोगो नेति स्थितम्, अन्यत्रापि `विकिपरं वै\उfffदादेविक'मित्यत्र दर्शनादिति भावः।

तत्त्वबोधिनी

876 विष्किरः। `कृ? विक्षेपे'इत्यस्मात् `इगुपधे'त्यादिना कप्रत्यये सुडागमोऽनेन निपात्यते। षत्वं तु `परिनिविभ्यः' इत्यनेन। विकिरग्रहणमिति। `विष्किरः शकुनौ विकिरो वा'इति वृत्तिग्रन्थे पाठः, सूत्रपाठे तु विकिरग्रहणं नास्त्येवेति बोध्यम्। तस्यापीति। विकिरशब्दस्यापीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.