Table of Contents

<<3-1-134 —- 3-1-136>>

3-1-135 इगुपधज्ञाप्रीकिरः कः

प्रथमावृत्तिः

TBD.

काशिका

इगुपधेभ्यः जानातेः प्रीणातेः किरतेश्च कप्रत्ययः भवति। विक्षिपः। विलिखः। बुधः। कृशः। जानाति इति ज्ञः। प्रीणाति इति प्रियः। किरति इति किरः। देवसेवमेषादयः पचादौ पठितव्याः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

790 एभ्यः कः स्यात्. बुधः. कृशः. ज्ञः. प्रियः. किरः..

बालमनोरमा

714 इगुपधज्ञा। `कृ? विक्षेपे' इत्यस्य इत्त्वे रपरत्वे च किरिति रेफान्तम्। इगुपध, ज्ञा, प्री, किर् एषां द्वन्द्वात्पञ्चमी। कित्त्वं गुणनिषेधार्थम्। ज्ञ इति। आतो लोपः। प्रिय इति। प्रीञ् के इयङ्। किर इति। कृ?धातोः कप्रत्यये इत्त्वे रपरत्वम्।

तत्त्वबोधिनी

595 इगुपध। इक् उपधा यस्य सः। ज्ञा अवबोधने, प्रीञ् तर्पणे, कृ? विक्षेपे। एषामितरेतरयोगद्वन्द्वे व्यत्ययेन पञ्चम्येकवचने कशब्दस्य धात्वनुकरणत्वेन `प्रकृतिवदनुकरण'मित्यतिदेशात् `ॠत इद्धातो'रिति इत्वम्। समाहारद्वन्द्वे तु नपुंसकह्यस्वत्वे सति इत्वं न स्यात्। ज्ञ इति। जानातीति ज्ञः। `आतो लोप इटि चे'त्यालोपः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः एभ्यः कः स्यात् । The affix “क” may be used following
i) a verbal root which has a penultimate इक् letter
ii) the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३), √प्री (प्रीञ् तर्पणे कान्तौ च ९. २) or √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५)

उदाहरणम् – बोधति बुध्यत इति वा बुधः derived from √बुध् (बुधँ अवगमने १. ९९४, बुधँ अवगमने ४. ६८).
बुध् + क 3-1-135
= बुध् + अ 1-3-8, 1-3-9. Note: The affix “क” is a कित्। Therefore 1-1-5 stops the गुणादेशः which would have been done by 7-3-86
= बुध
“बुध” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् - जानातीति ज्ञः derived from √ज्ञा (ज्ञा अवबोधने ९. ४३)
ज्ञा + क 3-1-135
= ज्ञा + अ 1-3-8, 1-3-9
= ज्ञ 6-4-64
“ज्ञ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् - प्रीणातीति प्रियः derived from √प्री (प्रीञ् तर्पणे कान्तौ च ९. २)
प्री + क 3-1-135
= प्री + अ 1-3-8, 1-3-9. Note: The affix “क” is a कित्। Therefore 1-1-5 stops the गुणादेशः which would have been done by 7-3-84
= प्र् इयँङ् + अ 6-4-77, 1-1-53
= प्रिय 1-3-2, 1-3-3, 1-3-9
“प्रिय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् - किरति – विक्षिपतीति किरः derived from √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५).
कॄ + क 3-1-135
= कॄ + अ 1-3-8, 1-3-9. Note: The affix “क” is a कित्। Therefore 1-1-5 stops the गुणादेशः which would have been done by 7-3-84
= किर् + अ 7-1-100, 1-1-51
“किर” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46