Table of Contents

<<6-1-146 —- 6-1-148>>

6-1-147 आश्चर्यम् अनित्ये

प्रथमावृत्तिः

TBD.

काशिका

अनित्यतया विषयभूतया अद्भुतत्वम् इह उपलक्ष्यते, तस्मिन्नाचर्यं निपात्यते। चरेराङि चागुरौ इति यत्प्रत्यये कृते निपातनात् सुट्। आश्चर्यं यदि स भुञ्जीत। आश्चर्यं यदि सो ऽधीयीत। चित्रम् अद्भुतम् इत्यर्थः। अनित्ये इति किम्? आचर्यं कर्म शोभनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1047 आश्चर्यमनित्ये। अद्भुते गम्ये आङ्पूर्वकस्य चरेः सुट्। `चरेराङि चाऽगुरौ' इति यत्। अनित्यग्रहणमपनीय अद्भुते इति वक्तव्यमिति वार्तिकमभिप्रेत्याह–अद्भुते सुडिति। तेन आश्चर्य नीला द्यौः, आश्चर्यमन्तरिक्षे यदबन्धनानि नक्षत्राणि न पतन्तीत्यादिसंग्रहः। अनित्ये इत्यनेन कादाचित्कतया अद्भुतं लक्ष्यत इत्युक्ते तु एतन्न सिध्येत्।

तत्त्वबोधिनी

875 आश्चर्यमिति। आडः परस्य चरेः सुट्। `चरेराङि चाऽगुरौ'इति यत्।

Satishji's सूत्र-सूचिः

TBD.