Table of Contents

<<6-1-145 —- 6-1-147>>

6-1-146 आस्पदं प्रतिष्ठायाम्

प्रथमावृत्तिः

TBD.

काशिका

आत्मयापनाय स्थानं प्रतिष्ठा, तस्याम् आस्पदम् इति सुट् निपात्यते। आस्पदम् अनेन लब्धम्। प्रतिष्थायाम् इति किम्? आ पदातापदम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1046 आस्पदं प्रतिष्ठायाम्। आत्मेति। आत्मयापनं=शरीरसंरक्षणं, तदर्थं यत् स्थानं तस्मिन् गम्ये सुडित्यर्थः। आपदादापदमिति। आ पदादिति विग्रहे अव्ययीभावे आपदमिति भावतीत्यर्थः। `आपदापद'मिति पाठे तु-आपदमित्यस्य आपदित्यर्थ इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.