Table of Contents

<<6-1-144 —- 6-1-146>>

6-1-145 गोष्पदं सेवितासेवितप्रमाणेसु

प्रथमावृत्तिः

TBD.

काशिका

गोष्पदम् इति सुट् निपात्यते, तस्य च षत्वं सेविते असेविते प्रमाने च विषये। गोष्पदो देशः। गावः पद्यन्ते यस्मिन् देशे स गोभिः सेवितो देशो गोष्पदः इत्युच्यते। असेविते अगोष्पदान्यरण्यानि। असेविते गोष्पदशब्दो न सम्भवति इत्यगोष्पदशब्दार्थं निपातनम्। यद्येवं न अर्थ एतेन, गोष्पदप्रतिषेधादगोष्पदं भविस्यति? सत्यम् एतत्, यत्र तु सेवितप्रसङ्गो ऽस्ति तत्र एव स्यादगोष्पदम् इति, यत्र त्वत्यन्तासम्भव एव तत्र न स्यात्, अगोष्पदान्यरण्यानि इति? असेवितग्रहणात् तत्र अपि भवति। यानि हि महान्त्यरणानि येषु गवाम् अत्यन्तासम्भवस् तान्येवम् उच्यन्ते। प्रमाणे गोस्पदमात्रं क्षेत्रम्। गोष्पदपूरं वृष्टो देवः। न अत्र गोष्पदं स्वार्थप्रतिपादनार्थम् उपादीयते, किं तर्हि, क्षेत्रस्य वृष्टेश्च परिच्छेत्तुमियत्ताम्। सेवितासेवितप्रमाणेसु इति किम्? गोः पदम् गोपदम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1045 गोष्पदमात्रं क्षेत्रमिति। क्षेत्रस्याल्पप्रमाणत्वमनेन ज्ञाप्यते। अतो गोष्पदात् क्षेत्रस्याधिक्येऽपि न क्षतिः।

तत्त्वबोधिनी

873 गोष्पदम्। असेविते गोष्पदशब्दस्य वृत्तयसंभावान्नञ्पूर्वकमुदाहरति— अगोष्पदानोति। गवां संचारो यत्र नैव संभवति तत्रापि सुडागमार्थमसेवितग्रहणमित्याहुः।

Satishji's सूत्र-सूचिः

TBD.