Table of Contents

<<6-1-143 —- 6-1-145>>

6-1-144 अपरस्पराः क्रियासातत्ये

प्रथमावृत्तिः

TBD.

काशिका

अपरास्परा इति सुट् निपात्यते क्रियासातत्ये गम्यमाने। अपरस्पराः सार्थाः गच्छन्ति। सन्ततमविच्छेदेन गच्छन्ति इत्यर्थः। क्रियासातत्ये इति किम्? अपरपराः सार्थाः गच्छन्ति। अपरे च परे च सकृदेव गच्छन्ति इत्यर्थः। न अत्र गमनस्य सातत्यप्रबन्धो विवक्षितः। किम् इदं सातत्यम् इति? सततस्य भावः सातत्यम्। कथं सततम्? समस्तते विकल्पेन मकारलोपो विधीयते। लुम्पेदवश्यमः कुत्ये तुंकाममनसोरपि। समो वा हितततयोर्मांसस्य पचियुड्घञोः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1044 अपरस्पराः। स्पष्टम्। गोष्पदम्। असेविते गोष्पदशब्दस्य वृत्त्यसंभवान्नञ्पूर्वकमुदाहरति–अगोष्पदानीति। गवां सञ्चारो यत्र नैव संभवति तत्रापि सुडिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.