Table of Contents

<<6-1-142 —- 6-1-144>>

6-1-143 कुस्तुम्बुरूणि जातिः

प्रथमावृत्तिः

TBD.

काशिका

कुस्तुम्बुरूणि इति सुट् निपात्यते जातिश्चेद् भवति। कुस्तुम्बुरुर्नामौषधिजातिः धान्यकम्। तत्फलान्यपि कुसुम्बुरुणि सूत्रनिर्देशे नपुंसकमविवक्षितम्। जातिः इति किम्? कुत्सितानि तुम्बुरूणि कुतुम्बुरूणि। तुम्बुरुशब्देन तिन्दुकीफलान्युच्यन्ते, समासेन तेषां कुत्सा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1043 अथ `सुट् कात्पूर्वः' इत्यतः सुडित्यनुवृत्तौ कतिचित्सूत्राणि व्याख्यातुमुपक्रमते-कुस्तुम्बुरूणि। अत्रेति। जातिविशेषे वाच्ये कुस्तुम्बुरुशब्दः ससुट्को निपात्यत इत्यर्थः। कुस्तुम्बुरुर्धान्याकमिति। गुल्मविशेषे प्रसिद्धः। क्लीबत्वमतन्त्रमिति। अविवक्षितमित्यर्थः। वचनमप्यतन्त्रमिति बोध्यम्। कुतुम्बुरूणीति। धान्याकजातिवाचकत्वाऽभावान्न सुडिति भावः। तदाह–कुत्सितानि तिन्दुकीफलानीत्यर्थ इति तुम्बुरुशब्दस्य तिन्दुकवाचकत्वे कोशो मृग्यः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.