Table of Contents

<<6-1-140 —- 6-1-142>>

6-1-141 हिंसायां प्रतेश् च

प्रथमावृत्तिः

TBD.

काशिका

किरतौ इत्येव। उपात् प्रतेश्च उत्तरस्मिन् किरतौ सुट् कात् पूर्वः भवति हिंसयां विषये। उपस्कीर्णं हं ते वृषल भूयात्। प्रतिस्कीर्णं हं ते वृषल भूयात्। तथा ते वृषल विक्षेपो भूयात् यथा हिंसामनुबध्नाति इत्यर्थः। हिंसायाम् इति किम्। प्रतिकीर्णम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

665 उपात्प्रतेश्च किरतेः सुट् स्यात् हिंसायाम्. उपस्किरति. प्रतिस्किरति.. गॄ निगरणे.. 40..

बालमनोरमा

370 हिंसायां प्रतेश्च। चकारादुपादिति समुच्चीयते। तदाह - उपादिति. गृ? निगरणे इति। निगरणं - भक्षणम्। सेट्।

तत्त्वबोधिनी

324 हिंसायां प्रतेश्च। चादुपात्। `उरोविदारं प्रतिचस्करे नखै'रिति माघः। कर्मणि लिट्। `ऋच्छत्यृ?ता'मिति गुणः।

Satishji's सूत्र-सूचिः

TBD.