Table of Contents

<<6-1-139 —- 6-1-141>>

6-1-140 किरतौ लवने

प्रथमावृत्तिः

TBD.

काशिका

उपातित्येव। उपादुत्तरस्मिन् किरतौ धातौ लवनविषये सुत् कत् पूर्वः भवति। उपस्कारं मद्रका लुनन्ति। उपस्कारं काश्मीरका लुनन्ति। विक्षिप्य लुनन्ति इत्यर्थः। णमुलत्र वक्तव्यः। लवने इति किम्? उपकिरति देवदत्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

664 उपात्किरतेः सुट् छेदने. उपस्किरति. (अडभ्यासव्यवायेऽपि सुट्कात् पूर्व इति वक्तव्यम्). उपास्किरत्. उपचस्कार..

बालमनोरमा

369 किरतौ लवने। उपादिति। `उपात्प्रतियत्ने' इत्यतस्तदनुवृत्तेरिति भावः। सुडागम इति। `सुट कात्पूर्व' इत्यस्तदनुवृत्तेरिति भाव-। अडभ्यासव्यवायेऽपीति वार्तिकम्। `सुट् कात्पूर्वः' इत्यनुवृत्तिलभ्यम्।

तत्त्वबोधिनी

323 किरतौ लवने। `उपात्प्रतियत्ने'ति सूतरादुपादिति वर्तते। लवने किम् ?। उपकिरति।

Satishji's सूत्र-सूचिः

TBD.