TBD.
सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा प्रतियत्नः। विकृतम् एव वैकृतम्। प्रज्ञादित्वादण्। गम्यमानार्थस्य वाक्यस्य स्वरूपेण उपादानं वाक्यस्य अध्याहारः। एतेष्वर्थेषु गम्यमानेसु करोतौ धातौ परतः उपात् सुट् कात् पूर्वः भवति। प्रतियत्ने तावत् एधो दकस्य उपस्कुरुते। काण्डगुणस्य उपस्कुरुते। वैकृते उपस्कृतं भुङ्क्ते। उपस्कृतं गच्छति। वाक्याध्याहारे उपस्कृतं जल्पति। उपस्कृतम् अधीते। एतेषु इति किम्? उपकरोति।
TBD.
686
380 प्रागुक्तयोरिति। भूषणसमवाययोरित्यर्थः। ननु `संपरिभ्या'मिति सुट् पदद्वयोपेक्षत्वाद्बहिरङ्गः। `लिटि धातो'रिति द्वित्वं तु प्रकृतिप्रत्ययमात्रोपेक्षत्वादन्तरङ्गम्। ततस्च संचस्कारेत्यत्र परमपि सुटं बाधित्वा द्वित्वे कृतेऽभ्यासात्प्रागेव सुटि प्राप्ते–
–
TBD.