Table of Contents

<<6-1-137 —- 6-1-139>>

6-1-138 समवाये च

प्रथमावृत्तिः

TBD.

काशिका

समवायः समुदायः, तस्मिंश्चार्थे करोतौ सम्पर्युपेभ्यः कात् पूर्वः सुडागमो भवति। तत्र नः संस्कृतम्। तत्र नः परिष्कृतम्। तत्र न उपस्कृतम्। समुदितम् इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

685 सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे. संस्करोति. अलङ्करोतीत्यर्थः. संस्कुर्वन्ति. सङ्घीभवन्तीत्यर्थः. सम्पूर्वस्य क्वचिदभूषणेऽपि सुट्. संस्कृतं भक्षा इति ज्ञापकात्..

बालमनोरमा

379 समवाये च। कोरतेः सुट् स्यादिति। `सुट् कात्पूर्वः' इत्यतो, `नित्यं करोते'रित्यतश्च तदनुवृत्तेरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.