TBD.
इको ऽसवर्ने अचि परतः शाकल्यस्य आचार्यस्य मतेन प्रकृत्या भवन्ति, ह्रस्वश्च तस्य इकः स्थाने भवति। दधि अत्र, दध्यत्र। मधु अत्र, मध्वत्र। कुमारि अत्र, कुमार्यत्र। किशोरि अत्र, किशोर्यत्र। इकः इति किम्? खट्वेन्द्रः। असवर्णे इति किम्। कुमारीन्द्रः। शाकल्यस्य ग्रहणं पूजार्थम्। आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः। सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः। सिति अयं ते योनिरृत्वियः। नित्यसमासे व्याकरनम्। कुमार्यर्थम्। ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रं वक्तव्यम्। ईषा अक्षो हिरण्ययः। का इमरे पिशङ्गिला। पथा अगमन्।
TBD.
59 पदान्ता इको ह्रस्वा वा स्युरसवर्णेऽचि. ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः. चक्रि अत्र, चक्रय्त्र. पदान्ता इति किम्? गौर्यौ -.
92 भाष्यकारमतमाह–अत्र ह्यस्वेति। अत्र चकारो न कर्तव्यः, प्रकृत्येत्यनुकर्षस्य व्यर्थत्वात्। नच विहितस्य ह्यस्वस्य यण्निवृत्त्यर्थः स इति वाच्यं, ह्यस्वविधिसामथ्र्यादेव यणो निवृत्तिसिद्धेः। अन्यथा यणमेव विदध्यात्। अतः प्रकृत्येत्यनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितमित्यर्थः। चक्रि- अत्रेति ह्यस्वमनुच्चितप्रकृतिभावपक्षे रूपम्। तदभावपक्षे तु यणि चक्र्यत्रेति रूपम्। नचात्र ककारस्य `स्कोः संयोगाद्यो'रिति लोपः शङ्क्यः, `अचः परस्मि'न्निति यणः स्थानिवत्त्वेनाऽच्त्वेन पदान्तसंयोगाऽभावात्। नच `पूर्वत्रासिद्धे न स्थानिव'दिति तन्निषेधः शङ्क्यः, `तस्य दोषः संयोगादिलोपलत्वणत्वे'ष्विति वचनात्।
इति। वाप्याम\उfffदा इति विग्रहः। शौण्डादेराकृतिगणत्वात्सुप्सुपेति वा समासः। भवतीत्यर्थः। पार्\उfffदामिति। पर्शु=पार्\उfffदाआस्थि। पर्शूनां समूहः पार्\उfffदाम्। `पर्\उfffदाआ णस् वक्तव्यः' इति णस्। आदिवृद्धिः। यणादेशः। अत्र पार्शु-अ इति स्थिते उक्तः शाकलो विधिर्न भवति। ओर्गुणस्तु न, भस्यैव तद्विधानात्, `सिति चे'ति पदत्वेन भत्वबाधात्। `अचो ञ्णिती'ति वृद्धिरपि न भवति, आदिवृद्ध्या तद्बाधात्। तथाच मूलकारो वक्ष्यति-`आदिवृद्धिरन्त्योपधावृद्धी बाधते' इति। अत्र सिन्नित्यसमासयोः शाकलप्रतिषेधः' इति वार्तिकं, तदिह द्विधा विभज्य व्याख्यातम्। नचैव सति वोप्य\उfffदा इत्यत्र कथं शाकलप्रतिषेधः, तत्र समासस्य वैकल्पिकत्वादिति वाच्यम्, भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात्।
–
TBD.