Table of Contents

<<6-1-128 —- 6-1-130>>

6-1-129 अप्लुतवदुपस्थिते

प्रथमावृत्तिः

TBD.

काशिका

उपस्थितं नाम अनार्षः अतिकरणः, समुदायादवच्छिद्य पदं येन स्वरूपे ऽवस्थाप्यते। तस्मिन् परतः प्लुतः अप्लुतवद् भवति। प्लुतकार्यं प्रकृतिभावं न करोति। सुश्लोक3 इति सुश्लोकेति। सुमङ्गल3 इति सुमङ्गलेति। वत्करणं किम्? अप्लुत इति उच्यमाने प्लुत एव प्रतिषिद्यते। तत्र को दोषः? प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात्, अग्नी3 इति, वायू3 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

99 तदाह–उपस्थितोऽनार्ष इति। अप्सुतवद्भावस्य प्रयोजनमाह–प्लुतकार्यं प्रकृतिभावमिति। `अप्लुतकार्यं यणादिकं करोती'ति पाठान्तरम्। सुश्लोकं3 इतीति। तैत्तिरीये `सुश्लोक3' इति प्लुतान्तो मन्त्रः पठितः। पदकालेऽवग्रहे तस्मात्परत इतिशब्दं पदकाराः पठन्ति। तत्र `सुश्लोक3 इती'ति स्थितेऽप्लुतवद्भावेन प्रकृतिभावाऽभावे सत्याद्गुणे सुश्लोकेतीति भवति। अत्रेतिशब्दः पदकारप्रक्षिप्तत्वादवैदिकः। तदेव `सुश्लोकेति' इत्युदाहरणं भाष्ये स्थितम्। पदकारास्तु `सुश्लोक3 इति सुश्लोक3 इती'त्येव अवगृह्णन्ति। तदपि संहिताया अविवक्षितत्वान्निर्वाह्रम्। संहितायामेव यणादिसन्धिविधानात्। वत्किमिति। `अप्लुत्तव'दित्यत्र वद्ग्रहणस्य किं प्रयोजनमिति प्रश्नः। उत्तरमाह–अप्लुत इत्यादिना। वद्ग्रहणं विहायाऽप्लुत उपस्थित इत्युक्तेप्लुतस्य स्थानेऽप्लुत एव विधीयते। अतः प्लुत एव निवर्तेत। ततश्च अग्नी3 इतीत्यत्र सम्बोधनप्रथमाद्विवचनान्तस्यानुकरणे प्रगृह्र ईकारस्त्रिमात्रो न श्रूयते। वत्करणे तु प्लुतकार्यस्य प्रकृतिभावस्यैव निवृत्तिर्गम्यते न तु प्लुतस्यापीति नोक्तदोष इत्यर्थः।

तत्त्वबोधिनी

79 यणादिकं करोतीति। अत्र नव्याः-`यद्येवम् `अग्नी इति ' विष्णू इति ' इत्यत्र प्रगृह्राश्रयं प्रकृतिभावं बाधित्वा परत्वादनेन यणादिकार्यं स्यात्, ततश्च वत्करणप्रयोजन यणादिकमेव स्यात्, तस्मात् `प्लुतकार्यं प्रकृतिभावं न करोतीत्यर्थः' इति प्राचां व्याख्यैव ज्यायसी। एवं च `इको यणची'त्यत्रेग्ग्रहणस्य वैयथ्र्यशङ्रकाऽपि नास्ति। तथाहि–तत्रेग्ग्रहणाऽभावेऽपि `ह्यस्वस्य पिति कृति तुक्' `दीर्घा'दित्यतो ह्यस्वदीर्घपदानुवृत्त्या तयोर्यण्विधानान्न व्यञ्जनस्य भविष्यति। प्लुतस्य तु प्रकृतिभावेनैव न भवितव्यमेव। ?योदयोऽपवादा `हरय' इत्यादौ। `उपेन्द्रः' `कृष्णैकत्व'मित्यादौ तु `आद्गुणः' `वृद्धिरेचि' इति बाधके भविष्यतः। यथा सत्यपीग्ग्रहणे `श्रीश' इत्यादौ सवर्णदीर्घत्वं बाधकम्। अतो नार्थ इग्ग्रहणेन। तथापि `एहि करभोरु 3 इति' `सुतनु 3 इति' चिनुहि 3 अत्रे'त्यादौ `अप्लुतवदुपस्थिते' `ई 3 चाक्रवर्मणस्ये'ति प्रकृतिभावनिषेधेऽपि आभ्यां यणादिकार्याऽविधानात् प्लुतस्याऽस्य यण्न स्यात्। ह्यस्वदीर्घपदाननुवृत्तौ तु व्यञ्जनस्य स्यात्। तस्मादिग्ग्रहणं व्यर्थमिति न शक्यते शङ्कितु'मित्याहुः। अन्ये त्विग्ग्रहणस्य प्रयोजनान्तरमप्याहुः,-इको यणेव क्वचिद्यथा स्याद्यदन्यत्प्राप्नोति तन्मा भूत्। किंचाऽन्यत् प्राप्नोति ?, `इकोऽसवर्णे' इति शाकलम्। एवं च यदुक्तं `न समासे' `सिति चे'ति, तदनेन सङ्गृहीतं भवती'ति।

Satishji's सूत्र-सूचिः

TBD.