Table of Contents

<<6-1-124 —- 6-1-126>>

6-1-125 प्लुतप्रगृह्या अचि

प्रथमावृत्तिः

TBD.

काशिका

प्लुताश्च प्रगृह्याश्च अचि प्रकृत्या भवन्ति। देवदत्त3अत्र न्वसि। यज्ञदत्त3इदम् आनय। आश्रयादत्र प्लुतः सिद्धः। प्रगृह्याः अग्नी इति। वायू इति। खट्वे इति। माले इति। अचि इत्यनुवर्तमाने पुनरज्ग्रहणम् आदेशनिमित्तस्य अचिः परिग्रहार्थम्। तेन इह न भवति, जानु उ अस्य रुजति जान्वस्य रुजति। प्रगृह्यादुकारात् परस्य अकारस्य सवर्णदीर्घत्वं प्रत्यनिमित्तत्वादत्र प्रकृतिभावो न भवति। नित्यग्रहणम् इह अनुवर्तते। प्लुतप्रगृह्याणां नित्यम् अयम् एव प्रकृतिभावो यथा स्याद्, इको ऽसवर्णे शाकल्यस्य ह्रस्वश्च 6-1-127 इत्येतन् मा भूतिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

50 एतेऽचि प्रकृत्या स्युः. आगच्छ कृष्ण 3 अत्र गौश्चरति..

बालमनोरमा

90 अथ प्रकृतिभाव इति। `निरूप्यते' इति शेषः। प्लतुप्रगृह्राः। वक्ष्यन्त इति। `दूराद्धूते चे'त्यादिना, ईदूदेदित्यादिना चेत्यर्थः। प्रकृत्येति। `प्रकृत्यान्तः पाद' मित्यतदस्तदनुवृत्तेरिति भावः। प्रकृत्या स्वभावेनाऽवस्थिताः स्युरित्यर्थः। सन्धयो न भवन्तीति यावत्। एहि कृष्णा3 अत्रेति। `दूराद्धूते चे'ति णकारादकारः प्लुतः। तस्य अकारे न सवर्णदीर्घः। हरी एताविति। `ईदूदे'दिति रेफादीकारः प्रगृह्रः। तस्य यणादेशो न भवति। ननु सर्वत्र विभाषेति पूर्वसूत्रे विभाषेत्यस्याऽस्वरितत्वादेव निवृत्तिसिद्धेरिह नित्यग्रहणं किमर्थमिति पृच्छति- नित्यमिति किमिति। उत्तरमाह-हरी एताविति। नित्यग्रहणे सत्येव हरी एतावित्यादौ `प्लुतप्रगृह्रा अची' त्ययमेव केवलः प्रकृतिभावः स्यादित्यर्थः। `यथा'शब्दो योग्यतायाम्। अयमेव प्रकृतिभावः प्राप्तुं योग्यः। स च नित्यग्रहणे सति प्राप्नुयादित्यर्थः। एवमग्रेऽप्येवंजातीयकेषु। `एव'शब्दव्यवच्छेद्यं दर्शयति-इक इति। `इकोऽसवर्णे शाकल्यस्य ह्यस्वश्चे'ति वक्ष्यमाणः ह्यस्वसमुच्चितः प्रकृतिभावो माभूत्=न भवेत्। माङि लुङ्। सर्वलकारापवादः। अकृते सति नित्यग्रहणे परत्वाच्छाकलह्यस्वसहितप्रकृतिभावः प्रसज्येत। नित्यग्रहणे कृते तु तत्सामथ्र्यादेव परमपि शाकलं ह्यस्वसमुच्चितप्रक-तिभावं `प्लुतप्रगृह्रा' इति केवलः प्रकृतिभावो बाधत इत्यर्थः।

तत्त्वबोधिनी

74 प्लुतप्रगृह्राः। प्रकृति भावं प्रति प्लुतो नाऽसिद्धः, प्लुतमनूद्य प्रकृतिभावविधानसामथ्र्यात्। अचि किम् ?, `जानु उ जानू'। उञः प्रगृह्रत्वेऽपीह सवर्णदीर्घः। `अची'त्यनुवर्तमाने पुनरचिग्रहणमादेशनिमित्ते एवाऽचि प्रकृतिभावः। तेन इहाप्येकादेशः स्यादेव-`जानु उ अस्य रुजति', `जानू अस्य रुजति'। इह `मय उञः' इति पाक्षिके वकारे तु `जान्वस्य रुजति'। एहि कृष्णेति। `दूराद्धूते चे'ति प्लुतः। प्राचा तु-`कृष्णा एही'ति उदाह्मतम्। तदसत्। `वाक्यस्य टेः'-इत्यधिकारात्। ह्यस्वसमुच्चितो मा भूदिति। अयं भावः-`हरी ईशा'वित्यादौ `प्लुतप्रगृह्राः'इत्येतत्सावकाशम्, `चक्री अत्रे'त्यत्र तु `इकोऽसवर्णे-' इति। ततश्च `हरी एता'वित्यत्र परत्वाद्ध्रस्वसमुच्चित एव स्यात्। नित्यग्रहणे तु कृते तत्सामथ्र्यात्परमपि बाधत इति। कार्यकालपक्षे बहिरङ्गपरिभाषया असिद्धत्वात्, स्थानिवद्भावाच्च। `पूर्वत्रासिद्धे न स्थानिव'दिति तु नास्ति, `तस्य दोषः संयोगादिलोपलत्वणत्वेषु' इति वक्ष्यमाणत्वात्। वक्तव्यः' इति णस्। ओर्गुणस्तु न, `सिति चे'ति पदत्वस्य भत्वापवादत्वात्।

Satishji's सूत्र-सूचिः

वृत्ति: एतेऽचि प्रकृत्‍या स्‍युः। (We will ignore the term “प्लुत” because it seldom has application in classical Sanskrit.) Terms which are designated as “प्रगृह्य” retain their natural state when followed by a vowel. (This means that no सन्धिः operations are performed.)

Example continued from 1-1-11

गीतासु उदाहरणम् – श्लोकः Bg13-19

अनादी + उभौ = अनादी + उभौ । Note: 6-1-125 prevents 6-1-77 इको यणचि from applying.