Table of Contents

<<6-1-123 —- 6-1-125>>

6-1-124 इन्द्रे च नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

इन्द्रशब्दस्थे अचि परतो गोर्नित्यम् अवङादेशो भवति। गवेन्द्रः। गवेन्द्रयज्ञस्वरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

48 गोरवङ् स्यादिन्द्रे. गवेन्द्रः..

बालमनोरमा

252 इन्द्रे च। `गोः', `अवङ्', `अची'त्यनुवर्तते। तदाह–गोरिति। विकल्पनिवृत्त्यर्थः। गवेन्द्र इति। गो-इन्द्र इति स्थिते अवङ्। आद्गुणः।

तत्त्वबोधिनी

223 इन्द्रे च। आरम्भसामथ्र्यान्नित्यमिदम्। इदं च सूत्रंत्यक्तुं शक्यम्। अन्यार्थं स्वीकृतेन व्यवस्थितविभाषाश्रयणेनैवेष्टसिद्धेरित्याहुः। प्लुतुप्रगृह्राः–' इति सूत्रादव्यवहितपूर्वः `अथ प्रकृतिभावः' इति पाठो मूलपुस्तकेषु प्रायेण दृश्यते, स चाऽपपाठ पव। `सर्वत्र विभाषा गोः;' इति प्रकृतिभावस्य प्रागेवारब्धत्वादित्येके। अन्ये तु `अवङ् स्फोटायनस्य' इन्द्रे चे'ति सूत्रद्वयं प्रकृतिभावप्रकरणे पठितमपि तद्बहिर्भूतमित्यवश्यं वक्तव्यं, ताभ्यां तदविधानात्। न च `अवङ्'सूत्रस्य प्रकृतिभावापवादत्वेनोत्सर्गापवादरूपत्वात्तत्प्रकरणस्थत्वं सूपपादमित्यवङादेशानुवृत्त्यर्थं तदनन्तरं पठितस्य `इन्द्रे चे'ति सूत्रस्यापीति वाच्यम् ; पूर्वरूपापवादत्वस्यापि `अवङ्'सूत्रस्य सुवचत्वात्। एतत्प्रकरणपाठस्य गोशब्दानुवृत्त्यर्थतया चरितार्थत्वात्। एवं च स्वलेख्यप्रकृतिभावप्रकरणाद्बहिस्तत्सूत्रद्वयं लिखितं, तदनुकूलत्वेन `सर्वत्र विषाषे'ति सूत्रमपि तत्रैवेति स्थितस्य गतिर्बोध्येत्याहुः। तत्त्वबोधिन्याम् अदादिप्रकरणम्।

Satishji's सूत्र-सूचिः

TBD.