Table of Contents

<<6-1-122 —- 6-1-124>>

6-1-123 अवङ् स्फोटायनस्य

प्रथमावृत्तिः

TBD.

काशिका

अति इति निवृत्तम्। अचि इत्येतत् त्वनुवर्तत एव। अचि परतः गोः स्फोटायनस्य आचार्यस्य मतेन अवङादेशो भवति। गवाग्रम्, गो ऽग्रम्। गवाजिनम्, गो ऽजिनम्। गवौ दनम्, गवोदनम्। गवोष्ट्रम्, गवुष्ट्रम्। आद्युदात्तश्च अयम् आदेशो निपात्यते, स निपातनस्वरो बहुव्रीहौ प्रकृतिस्वरविधाने भवति। गावः अग्रम् अस्य गवाग्रः इति। अन्यत्र तु समासान्तौदात्तत्वेन बाध्यते। स्फोटायनग्रहणं पूजार्थं, विभाषा इत्येव हि वर्तते। व्यवस्थितविभाषा इयं, तेन गवाक्षः इत्यत्र नित्यम् अवङ् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

88 अवङ् स्फोटायनस्य। अतीति निवृत्तमिति। `एङः पदान्तादित्यत' इति शेषः, व्याख्यानादिति भावः। पदान्तादिति, गोरिति, अचीति चानुवर्तते। स्फोटायनस्य ऋषेर्मतेऽवङ्। अन्यस्य तु न। ततश्च विकल्पः सिद्धः। तदाह–अचि पर इत्यादिना। `ङिच्चे'त्यन्तादेशः। गवाग्रमिति। गो-अग्रहमिति स्थिते गकारादोकारस्यावङ्। गव- अग्रमिति स्थिते सवर्णदीर्घः। न चाऽग्रशब्देऽकारमचं परत्वेनाश्रित्य प्रवृत्तोऽवङ् कथं तद्विघातकं सवर्णदीर्घं प्रवर्तयति, संनिपातपरिभाषाविरोधादिति वाच्यं, संनिपातपरिभाषाया अनित्यत्वस्य रामायेत्यत्र वक्ष्यमाणत्वात्। गवीति। `गो इ'-इति स्थिते ओकारस्य पदान्तत्वविरहान्नावङ्। नापि पूर्वसूत्राभ्यां प्रकृतिभावपररूपे किन्त्ववादेशः। अतीत्यनुवृत्तौ तु गवेश इत्यादि न सिध्येत्। व्यवस्तितेति। क्वचिद्भवतीत्यंश एव प्रवर्तते, क्वचित्तु न भवतीत्यंश एव, क्वचिदुभयमित्येवं लक्ष्यानुसारेण व्यवस्थया प्रवृत्ता विभाषा व्यवस्थितविभाषा सर्वत्र विभाषा गोरित्यत्राश्रीयते। ततश्च गवाक्ष इत्यत्र नित्यमवङित्यर्थः। इदं च– `देवत्रातो'`गलो'`ग्राह' `इतयोगे च सद्विधिः'। मिथस्ते न विभाष्यन्ते `गवाक्षः' `संशितव्रतः'॥ इति शाच्छोरिति सूत्रे भाष्ये स्पष्टम्। गवाक्ष इति। गवां किरणानामक्षीवेति विग्रहः। `अक्ष्णोऽदर्शना'दित्यच। पुंस्त्वं लोकात्। `वातायनं गवाक्षः स्यात्' इत्यमरः।

तत्त्वबोधिनी

72 अवङ् स्फोटायनस्य। स्फोटोऽयनं परायणं यस्य सः स्फोटप्रतिपादनपरो वैयाकरणः। तस्य स्फोटायनस्य। अत्रापि `एङन्तस्या गो'रिति व्याख्येयम्। `अ'गित्येव सूत्रयितुमुचितम्। विभाषानुवृत्तेः स्फोटायनग्रहणं पूजार्थम्। अतीति निवृत्तमिति। अन्यथा `गवेशः' `गवोद्धः' इत्यादि न सिद्ध्येदिति भावः। अचि पर इति। अत्रा`चीत्यनुवर्तते, अतीति तु निवृत्तमित्यत्र व्याख्यानमेव शरणम्। गवाक्ष इति। गवां=किरणानाम् अक्षीवेति विग्रहः। `अक्ष्णोऽदर्शना'दित्यच्समासान्तः। वातायने रूढोऽयम्। पुंस्त्वं लोकात्।

Satishji's सूत्र-सूचिः

TBD.