Table of Contents

<<6-1-121 —- 6-1-123>>

6-1-122 सर्वत्र विभाषा गोः

प्रथमावृत्तिः

TBD.

काशिका

सर्वत्र छन्दसि भाषायां च अति परतो गोः एङ् प्रकृत्या भवति विभाषा। गो ऽग्रम्, गो अग्रम्। छन्दसि अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

44 लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते. गोअग्रम्, गोऽग्रम्. एङन्तस्य किम्? चित्रग्वग्रम्. पदान्ते किम्? गोः..

बालमनोरमा

87 सर्वत्र विभाषा। पदान्तादित्यनुवर्तते। `प्रकृत्यान्तः पाद'मित्यतः `प्रकृत्ये'त्यनुवर्तते। प्रकृत्या=स्वभावेन निर्विकारस्वरूपेणाऽवतिष्ठते इत्यर्थः। `यजुष्युर' इत्यतो यजुषीति निवृत्तं। तत्सूचनाय `सर्वत्रे'त्युपात्तम्। तेन लोके वेदे चेति लभ्यते। तदाह–लोक इत्यादि। प्रकृतिभाव इति। स्वभावेनावस्थानमित्यर्थः। एवं च पूर्वरूपमवादेशश्च न। गो-अग्रमिति प्रकृतिभावे रूपम्। पूर्वरूपे गोऽग्रमिति। अत्र एङ इत्यप्यनुवर्तते। ततश्चैकदेशविकृतमनन्यवद्भवतीति न्यायेन चित्रग्वग्रमित्यत्र नातिप्रसङ्गः। हे चित्रगोऽग्रमित्यत्रापि न प्रकृतिभावः, प्रतिपदोक्तस्यैवैङो ग्रहणात्। प्रकृते च `ह्यस्वस्य गुण' इत्योकारस्य लाक्षणिकत्वात्। गोरिति। गो असिति स्थिते गो इत्योकारस्य पदान्तत्वाऽभावान्न प्रकृतिभावः। नचैवमपदान्तत्वादेङः पदान्तादिति पूर्वरूपमपि दुर्लभमिति वाच्यम्, अत एव `ङसिङसोश्चे'ति तत्र पूर्वरूपारम्भात्।

तत्त्वबोधिनी

71 सर्वत्र विभाषा। यद्यपीह `छन्दसि' इति न पकृतम्, तथापि `यजुष्युरः' इत्यादिप्रक्रमाच्छन्दस्येवेति संभाव्येत, अतः `सर्वत्रेत्युक्तम्। तद्व्याचश्टे- लोके वेदे चेति। इह `एङ' इत्यनुवर्त्त्य `एङन्तस्य गो'रिति व्याख्येयम्। तेनेह न– चित्रग्वग्रम्। प्रकृतिभाव इति। एतच्च `प्रकृत्यान्तःपाद'मिति सूत्रात्प्रकृत्येत्यनुवृत्त्या लभ्यते। `नान्तःपाद'मिति पाठे तु `सर्वत्र विभाषे'ति सूत्रेण पूर्वरूपमेव विभाषा निषिध्यत इत्यवधेयम्। निषेधविकल्पे विधिविकल्पः फलित इत्याशयेन पूर्वरूपमेवविकल्प्यत इति मनोरमायां स्थितम्।

Satishji's सूत्र-सूचिः

TBD.