TBD.
नौशब्दान्तात् द्विगोः टच् प्रत्ययो भवति समासान्तः। द्वे नावौ समाहृते द्विनावम्। त्रिनावम्। द्विनावधनः। पञ्चनावप्रियः। द्वाभ्यां नौभ्यामागतं द्विनावरूप्यम्। द्विनावमयम्। द्विगोः इति किम्? राजनौः। अतद्धितलुकि इत्येव, पञ्चभिर् नौभिः क्रीतः पञ्चनौः। दशनौः।
TBD.
–
791 नावो द्विगोः। न तु तद्धितलुकीति। `गोरतद्धितलुकी'त्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः। द्विनावरूप्य इति। तद्धितार्थे समासः, टच्, आवादेशः। `हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः'। तस्य `द्विगोर्लुगनपत्ये' इति लुकमाशङ्क्याह–द्विगोर्लुगनपत्ये इत्यत्रेति। अपकर्षणादिति। `गोत्रेऽलुगची'त्यत्तरसूत्रादित्यर्थः। पञ्चनावप्रिय इति। पञ्च नावः प्रिया यस्येति विग्रहे उत्तरपदे द्विगुः, टचि, आवादेशः। द्विनावमिति। द्वयोर्नावोः समाहार इति विग्रहे द्विगुः। टच्। आवादेशः। `सनपुंसकम्' इति नपुंसकत्वम्। त्रिनावमिति। तिसृणां नावां समाहार इति विगरहः। द्विनाववत्। पञ्चनौरिति। तद्धितार्थे समासः। आर्हीयष्ठक्, `अध्यर्धे'ति लुक्।
696 द्विनावरूप इति। `हेतुमनुष्येभ्यः–'इति रूप्यः। पञ्चनौरिति। आर्हीयष्ठत्। `अध्यर्धपूर्वे'ति लुक्। खार्याः। द्विगोरिति। खारीशब्दान्ताद्द्विगोरित्यर्थः।
TBD.