Table of Contents

<<5-4-99 —- 5-4-101>>

5-4-100 अर्धाच् च

प्रथमावृत्तिः

TBD.

काशिका

अर्धशब्दात् परो यो नौशब्दः तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवति। अर्धं नावः अर्धनावम्। अर्धं नपुंसकम् 2-2-2 इति समासः। परवल्लिङ्गं न भवति, लोकाश्रयत्वात् लिङ्गस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

792 अद्र्धाच्च। अद्र्धशब्दात्परो यो नौशब्दस्तदन्तात्तत्पुरुषाट्टजित्यर्थः। अर्धनावमिति। `अर्धं नपुंसक'मिति समासः, टच्, आवादेशः। अत्र परवल्लिङ्ग'मिति स्त्रीत्वामशङ्क्याह–क्लीबत्वं लोकादिति।

तत्त्वबोधिनी

697 अद्र्धखारीति। `परवल्लिङ्ग'मिति स्त्रीत्वम्।

Satishji's सूत्र-सूचिः

TBD.