Table of Contents

<<5-4-97 —- 5-4-99>>

5-4-98 उत्तरमृगपूर्वाच् च सक्थ्नः

प्रथमावृत्तिः

TBD.

काशिका

उत्तर मृग पूर्व इत्येतेभ्यः परो यः सक्थिशब्दः, चकारादुपमानं च, तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवति समासान्तः। उत्तरसक्थम्। मृगसक्थम्। पूर्वस्क्थम्। उपमानात् खल्वपि फलकम् इव सक्थि फलकसक्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

790 उत्तरमृग। `उत्तर' `मृग' `पूर्व' एभ्य, उपमानाच्च परो यः सक्थिशब्दत्तदन्तास्तत्पुरुषाट्टच्स्यादित्यर्थः। उत्तरसक्थमिति। उत्तरं सक्थीति विग्रहः। पूर्वं सक्थीति विग्रहे `पूर्वकालैके'ति समासः। फलकसक्थमिति। फलकमिव सक्थीति विग्रहे मयूरव्यंसकादित्वात्समासः। सर्वत्र टच्, टिलोपः।

तत्त्वबोधिनी

695 फलकसक्थमिति। अतएव ज्ञापकादसामान्यवचनेनाप्युपमानस्य समास इति माधवः।

Satishji's सूत्र-सूचिः

TBD.