Table of Contents

<<5-4-96 —- 5-4-98>>

5-4-97 उअप्मानादप्राणिषु

प्रथमावृत्तिः

TBD.

काशिका

उपमानवाची यः श्वन्शब्दो ऽप्राणिषु वर्तते तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। आकर्षः श्वेव आकर्षश्वः। फलकश्वः। उपमितं व्याघ्रादिभिः इति समासः। उपमानातिति किम्? न श्वा अश्वा लोष्टः। अप्राणिषु इति किम्? वानरः श्वेव वानरश्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

789 उपमानादप्राणिषु। आकर्षः \उfffदोवेति। आकृष्यते कुसूलदिगतधान्यमनेनेत्याकर्षः- -पञ्चाङ्गुलो दारुविशेषः। `उपमितं व्याघ्रादिभिः' इति समासः। टच् टिलोपः, आकर्ष\उfffदा इति रूपम्। उपमानात्किम् ?। शुनो निष्क्रान्तो निः\उfffदाआ।

तत्त्वबोधिनी

694 आकर्षः \उfffदोवेति। `उपमितं व्याघ्रादी'ति समासः। आकृष्यतेऽनेन खलादिगतं धान्यमित्याकर्षः काष्ठविशेषः। उपमानात्किम्?। निष्क्रान्तः शुनो निः\उfffदाआ।

Satishji's सूत्र-सूचिः

TBD.