Table of Contents

<<5-4-94 —- 5-4-96>>

5-4-95 ग्रामकौटाभ्यां च तक्ष्णः

प्रथमावृत्तिः

TBD.

काशिका

जातिसंज्ञयोः इति न अनुवर्तते। ग्रामकौटाभ्यां परो यः तक्षन्शब्दः तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। ग्रामस्य तक्ष ग्रामतक्षः। बहूनं साधारणः इत्यर्थः। कुट्यां भवः कौटः, तस्य तक्षा कौटतक्षः। स्वतन्त्रः कर्मजीवी, न कस्य चित् प्रतिबद्धः इत्यर्थः। ग्रामकाउटाभ्याम् इति किम्? राजतक्षा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

787 ग्रामकौटाभ्यां च। आभ्यां टजिति। ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्तदन्तात्तत्पुरुषाट्टच्स्यादित्यर्थः। ग्रामतक्ष इति। टचि टिलोपः। साधारण इति। ग्रामे यावन्तो जनाः सन्ति तावतां विधेय इत्यर्थः। कुट\उfffदां भव इति। कुटीमेकां क्रयादिना सम्पाद्य तत्र यो वसति, न तु परकीयभूमिप्रदेशे स कौट इत्यर्थः। फलितमाह–स्वतन्त्र इति। कौटतक्ष इति। टचि, टिलोपः।

तत्त्वबोधिनी

692 ग्रामकौटाभ्यां। `जातिसंज्ञयोः'इति नानुवर्तते। ग्रामेति किम्?। राज्ञस्तक्षा राजतक्षा। अति\उfffदा इति। \उfffदाआनमतिक्रान्तो जेवेनेत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.