Table of Contents

<<5-4-93 —- 5-4-95>>

5-4-94 अनो ऽश्मायस्सरसां जातिसंज्ञायोः

प्रथमावृत्तिः

TBD.

काशिका

अनसश्मनयस् सरसित्येवम् अन्तात् तत्पुरुसात् टच् प्रत्ययो भवति जातौ संज्ञायान् च विषये। उपानसम् इति जातिः। महानसम् इति संज्ञा। अमृताश्म इति जातिः। पिण्डाश्म इति संज्ञा। कालायसम् इति जातिः। लोहितायसम् इति संज्ञा। मण्डूकसरसम् इति जातिः। जलसरसम् इति संज्ञा। जातिसंज्ञयोः इति किम्? सदनः। सदश्मा। सत्सरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

786 अनोऽश्यमायस्। उपानसमिति। उपगतमन इति प्रादिसमासः। अमृताश्म इति। अमृतोऽश्मेति विग्रहः। टचि टिलोपः। कालायसमिति। कालम् अय इति विग्रहः। टच्। `परवल्लिङ्ग'मिति नपुंसकत्वम्। मण्डूकसरसमिति। षष्ठीसमासः। टच्। जातिविशेषा एते। महानसं, पिण्डाश्मः, लोहितायसं, जलसरसमिति संज्ञाविशेषाः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.