Table of Contents

<<5-4-92 —- 5-4-94>>

5-4-93 अग्राऽख्यायाम् उरसः

प्रथमावृत्तिः

TBD.

काशिका

उरस्शब्दान्तात् तत्पुरुषाट् टच् प्रत्ययो भवति, स चेदुरस्शब्दः अग्राख्यायां भवति। अग्र प्रधानम् उच्यते। यथा शरीरावयवानाम् उच्यते उरः प्रधानम्, एवम् अन्यो ऽपि प्रधानभूत उरस्शब्देन उच्यते। अश्वानाम् उरः अश्वोरसम्। हस्त्युरसम्। रथोरसम्। अग्राख्यायाम् इति किम्? देवदत्तस्य उरः देवदत्तोरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

785 अग्राख्याया। शेषपूरणेन सूत्रं व्याचष्टे–टच् स्यादिति। पञ्चम्यर्थे सप्तमी। अग्रं प्रधानं, तद्वाची य उपश्शब्दस्तदन्तात्तत्पुरुषाट्टाच्स्यादित्यर्थः। `अग्नाख्याया'मिति पाठान्तरम्। अग्रे भवमग्रयं। मुख्यमिति यावत्। अ\उfffदाआनामुर इवेति। उरो यथा प्रधानं तथेत्यर्थः। उपश्शब्दस्य मुख्ये वृत्तौ लक्षणाबीजमिदम्। अ\उfffदाओरसमिति। उरश्शब्देन मुख्यवाचिना षष्ठीसमासः। टच्। `परल्लिङ्गम्' इति नपुंसकत्वम्। अग्राख्यायामिति किं ?। देवदत्तस्योरः देवदत्तोरः।

तत्त्वबोधिनी

691 अग्राख्यायाम्। पञ्चम्यर्थे सप्तमी। अग्रं प्रधानम्। अग्रवाची य उरःशब्दस्तदन्तात्तत्पुरुषाट्टच्स्यात्। अग्राख्यायां किम्?। देवदत्तस्योरो देवदत्तोरः।

Satishji's सूत्र-सूचिः

TBD.