TBD.
द्विस्तावा त्रिस्तावा इति वेदिश्चेदभिधेया भवति। अच्प्रत्ययः, टिलोपः, समासश्च निपात्यते। यावती प्रकृतौ वेदिः ततो द्विगुणा वा त्रिगुणा वा कस्यांचिद् विकृतौ तत्र इदं निपातनम्। द्विस्तावा वेदिः। त्रिस्तावा वेदिः। वेदिः इति किम्? द्विस्तावती, त्रिस्तावती रज्जुः।
TBD.
–
938 द्विस्तावा। यावती प्रकृताविति। यतोऽङ्गकलाप स्यातिदेशः। सा प्रकृतिः। अ\उfffदामेघस्य प्रकृतिरग्निष्टोमः, तत्राम्नाताऽङ्गकलापानाम\उfffदामेधेऽतिदेशात्। तदुक्तं कल्पसूत्रे`सर्वसोमक्रतूनामग्निष्टोमः प्रकृति'रिति। तस्मिन्नग्निष्टोमे वेदिपरिमाणं श्रुतम्। तत्र च `त्रिशत्पदानि प्रक्रमा वा पश्चात्तिरश्ची ष\उfffद्ट्त्रशत्, प्राची चतुर्विंशतिः, पुरस्तात्तिरश्ची'ति प्रकृतौ वेदिपरिमाणमुक्तम्। अस्यां तु वेद्यां ततो द्विगुणितं त्रिगुणितं च क्षेत्रपरिमाणमुक्तं कल्पसूत्रेषु-`अष्टाविंशत्यूनं पदसहरुआं माहावेदि'रिति। पदग्रहणमत्र प्रक्रमस्याप्युपलक्षणम्। तथाच प्रकृतौ अग्निष्टोमे यावती वेदिस्तदपेक्षया द्विगुणा त्रिगुणा वाऽ\उfffदामेधादौ वेदिरस्ति, तत्र आ\उfffदामेधिकवेद्यामभिधेयायां द्विस्तावेति त्रिस्तावेति च भवतीत्यर्थः। `सङ्ख्यायाः क्रियाभ्युवृत्तिगणने कृत्सुच्' `द्वित्रिचतुभ्र्यः सुच्' इति द्विशब्दत् क्रियाभ्यावृत्तौ सुचि कृते द्विरिति त्रिरिति च रूपम्। तत्र प्राकृतं परिमाणम् अस्या अस्तीति तावती। प्राकृतपरिमाणेति यावत्। द्विरिति तच्छब्दार्थे प्रकृतिपरिमाणेऽन्वेति। द्विः -तावतीति विग्रहः द्विरावृत्तं प्राक#ऋतं यत् परिमाणं तद्वत्या\उfffदामेधिकी वेदिरित्यर्थः। अत एव निपातनात्समासः, अच्प्रत्ययः, तावतीशब्दस्य `भस्याऽढे' इति पुंवत्त्वे ङीपो निवृत्तौ प्रत्ययस्याऽडित्त्वेऽपि प्रकृतेर्नान्तत्वाऽभावेऽपि टिलोपः। द्विस्तावती त्रिस्तावती रज्जुरिति। अत्र वेद्यामप्रवृत्तेरच्प्रत्ययटिलोपसमासा न भवन्तीत्यर्थः। तथाच प्रत्युदाहरणे `द्वि'रिति भिन्नं पदम्।
–
TBD.