Table of Contents

<<5-4-82 —- 5-4-84>>

5-4-83 अनुगवम् आयामे

प्रथमावृत्तिः

TBD.

काशिका

अनुगवम् इत्यच्प्रत्ययान्तं निपात्यते आयमे ऽभिधेये। अनुगवम् यानम्। यस्य चायामः 2-1-16 इति समासः। आयमे इति किम्? गवां पश्चदनुगु।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

937 अनुगवमायामे। एतदिति। अनुगवमित्येतदित्यर्थः। अनुना दीर्घत्वे द्योत्येऽच्प्रत्ययान्तो निपात्यत इत्यर्थः। आयामशब्दो दीर्घपर इति भावः। अनुगवंयानामिति। अनुगोशब्दादचि अवादेश इति भावः। यस्य चेति। `यस्य चायामः' इत्यव्ययीभावसमासः। तथा च गोदैध्र्यकं यानमित्यर्थः फलतीति भावः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.