Table of Contents

<<2-1-15 —- 2-1-17>>

2-1-16 यस्य च आयामः

प्रथमावृत्तिः

TBD.

काशिका

लक्षनेन इति वर्तते। आयामो दैर्घ्यम्। अनुर्यस्यायामवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। अनुगङ्गं वाराणसी। अनुयमौनं मथुरा। यमुनायामेन मथुरायामो लक्ष्यते। आयामः इति किम्? वृक्षमनु विध्योतते विद्युत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

662 यस्य चायामः। लक्षणेनेत्यनुवर्तते। अनुरित्यनुवर्त्त्य आवर्त्त्य तृतीयया विपरिणम्यते। तत्र एकं लक्षणेनेत्यत्र संबध्यते। द्वितीयं तु अनुनेत्येतत्–`यस्य चायामः' इत्यनन्तरं संबध्यते। द्योत्यत इति शेषः। आयामो दैघ्र्यम्। तदाह-यस्य दैघ्र्यमिति। यद्दैघ्र्यसदृशं दैघ्र्यमित्यर्थः। समस्यते इति। `सोऽव्ययीभाव'\त् इत्यपि बोध्यम्। अनुगङ्गमिति-समासः। लौकिकविग्रहं दर्शयति-गङ्गाया अन्विति। इहापि लक्षणत्वं वस्तुसदेव निमित्तं न त्वनुद्योत्यम्। अतो न कर्मप्रवचनीयत्वम्। द्योत्यत्वेनान्वये तु गङ्गामन्विति युक्तम्। अनुगङ्गमित्यत्र गङ्गाशब्देन गङ्गादैघ्र्यसदृशं दैघ्र्यं लक्ष्यते। तदेवानुद्योत्यम्। तदाह–गङ्गा-दैघ्र्येति।

तत्त्वबोधिनी

587 यस्य चा। इहानुरित्यनुवर्त्त्य आवर्त्त्यैकं तृतीयान्तत्वेन विपरिणमय्य व्याचष्टे–अनुनेति। लक्षणभूतेनेति। लक्षणेनेत्यनुवर्तत इति भावः। अनुगङ्गमिति। इहाऽऽयामोपलक्षणत्वं चानुना द्योत्यते, लक्ष्यं तु समासार्थः। अतएव वाराणस्याः सामानाधिकरण्यम्। एवं स्थिते फलितमाह–गङ्गादैध्र्येति। वाराणसीति। वरं च तदनश्च वरान:=श्रेष्ठोदकम्। `अनः क्लीबं जले शोके मातृस्यन्दनयोद्र्वयोः' इति रुद्ररभसौ। तस्याऽदूरे भवा। `अदूरभवश्च' इत्यण्। आदिवृद्धिः। `पूर्वपदात्संज्ञायाम्'इति णत्वम्। गङ्गाया अन्विति। समासाऽभावपक्षे प्रागुक्तरीत्या गङ्गामन्वित्युदाहार्यमित्याहुः।\त्(586) तिष्ठद्गुप्रभृतीनि च।2।1।17। भवति। परमतिष्ठद्गु इत्यादि न भवतीत्यर्थः। तिष्ठद्गु इति। `गोस्त्रियो'रिति ह्यस्वः। प्रथमासमानाधिकरणे शत्रादेशस्याऽसंभवादाह–इह शत्रादेश इति। इत्यादीति। आदिशब्देन–खलेयवम्। खलेबुसम्। सप्तम्या अलुक्। लूनयवम्। लूयमानयवमित्यादि ग्राह्रम्।

Satishji's सूत्र-सूचिः

TBD.