Table of Contents

<<5-4-79 —- 5-4-81>>

5-4-80 श्वसो वसीयःश्रेयसः

प्रथमावृत्तिः

TBD.

काशिका

श्वसः परौ यौ वसीयस्श्रेयस्शब्दौ तदन्तात् समासातच् प्रत्ययो भवति। श्वोवसीयसम्। श्वःश्रेयसम्। मयूरव्यंसकादित्वात् समासः। स्वभावाच् च इह श्वःशब्दः उत्तरपदार्थस्य प्रशंसामाशीर् विषयाम् आचश्टे, श्वःश्रेयसं ते भूयत्। शोभनं श्रेयस् ते भूयातित्यर्थः। श्वोवसीयसम् इत्यस्य एव अयं पर्यायः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

935 \उfffदासः। `\उfffदा'सित्यव्ययात् परो यो वसीयश्शब्दः, श्रेयश्शब्दश्च तस्मादच्स्यादित्यर्थः। वसुशब्दः प्रशस्तवाचीति। `यं कामयेत वसीयान् स्यादि'त्यादौ तथा दर्शनादिति भावः। तत इति। अतिशयेन वसुरिति विग्रहे `द्विवचनविभज्योपपद' इतीयसुनि, `तुरिष्ठेमेयस्सु' इत्यनुवृत्तौ `टे'रिति टिलोपे वसीयश्शब्द इत्यर्थः। \उfffदास्?शब्द इति। यद्यपि \उfffदास्शब्दः कालविशेषवाची तथापि प्रकृते शब्दशक्तिस्वबावादुत्तरपदार्थगतां प्रशंसामाशीर्विषयं द्योतयतीत्यर्थः। आशिषो वियः आशीर्विषयः, तमिति षष्ठीसमासः। प्रशंसाविशेषणम्। विषयशब्दस्य नित्यपुंलिङ्गत्वान्न स्त्रीलिङ्गता। एवं च \उfffदास्शब्द उत्तरपदार्थंगतप्राशस्त्यस्य द्योतक इति फलितोऽर्थः। ननु तर्हि \उfffदास्?शब्दस्योत्तरपदार्थगतप्राशस्त्यद्योतकत्वेऽप्युत्तरपदसामानाधिकरण्याऽभावात्कथं विशेषण समास इत्यत आह–मयूरेति। तथाचाशीर्लिङ्गादिप्रयोग एवास्य साधुत्वमित्यभिप्रेत्योदाहरति–\उfffदाओवसीयसमिति। अतिशयेन प्रशस्तमित्यर्थः। \उfffदाःश्रेयसमिति। अतिशयेन प्रशत्मिति विग्रहे प्रशस्तशब्दादीयसुन्, `प्रशस्यस्य श्रः'। `प्रकृत्यैका'जिति प्रकृतिभावान्न टिलोपः। आद्गुणः। श्रेयसिति रूपम्। \उfffदास्शब्दस्तु उत्तरपदार्थगतप्रशंसाद्योतकः। `\उfffदाऋश्रेयसं शिवं भद्र'मित्यमरः। `ते भूया'दिति तु उभयत्रापि संबध्यते,-\उfffदाओवसीयसं ते भूयात्, \उfffदाःश्रेयसं ते भूयादिति।

तत्त्वबोधिनी

811 \उfffदासो। `अवस् शब्दात्प्रशस्तवचनादीयसुन्नि'त्याकरविरुद्धं व्याचक्षाणा उपेक्ष्या इति ध्वनयति–वसुशब्द इति। वसीय इति। `यः कामयेत वसीयान् स्या'मिति श्रौतप्रयोगोऽप्यत्रानुकूल इति भावः। \उfffदास्?शब्द इति। कालवाच्यप्ययं, प्रकृते त्वर्थविशेषपरः, शक्तिस्वाभाव्यात्तमेवाह—उत्तरपदार्थंप्रशंसामिति। उत्तरपदार्थभूतां प्रशंसामित्यर्थः। आशीर्विषयमिति। षष्ठीसमासः। विषयशब्दस्याऽजहल्लिङ्गत्वात्पुंलिङ्गनिर्देशः। `उत्तरपदार्थप्रशंसाया आशीर्विषयतामाहे'ति पाठान्तरं क्वचिदस्ति। उभयथापि आशीर्विषयताया द्योतकोऽयमिति फलितोऽर्थः।

Satishji's सूत्र-सूचिः

TBD.