Table of Contents

<<5-4-78 —- 5-4-80>>

5-4-79 अवसमन्धेभ्यस् तमसः

प्रथमावृत्तिः

TBD.

काशिका

अव सम् अन्ध इत्येतेभ्यो यः परः तमस्शब्दः तदन्तात् समासातच् प्रत्ययो भवति। अवतमसम्। सन्तमसम्। अन्धतमसम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

934 अवसमन्धेभ्यस्तमसः। अव सम् अन्ध एभ्यः परो यस्तमश्शब्दस्तस्मादच्स्यादित्यर्थः। अवतमसमिति। अवहीनं तम इति विग्रहः। प्रादिसमासः। संतमसमिति। संततं तम इति विग्रहः। प्रादिसमासः। अन्धयतीत्यन्धमिति। `अन्ध दृष्ट\उfffदुपघाते' चुरादिः। दृ\उfffद्ष्ट प्रतिबध्नातीत्यर्थः। पचाद्यजिति। `नन्दिग्राहिपचादिभ्यो ल्युणिन्यचः' इति पचादित्वप्रयुक्तोऽच्प्रत्यय इत्यर्थः। अचि णिलोपेऽन्धमिति रूपम्। गाढमित्यर्थः। फलति। गाढस्यैव तमसो दर्शनप्रतिबन्धकत्वात्। अन्धतमसमिति। कर्मधारयादच्।

तत्त्वबोधिनी

810 अवतमसमित्यादिष अवहीनं संततं च तम इथि विग्रहः। अन्धयतीति। `अन्ध दृष्ट\उfffदुपघाते' चुरादिः। अन्धमिति। गाढमित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.