TBD.
अनु अव तप्त इत्येतेभ्यः परो यो रहस्शब्दः तदन्तात् समासादच् प्रत्ययः भवति। अनुरहसम्। अवरहसम्। तप्तरहसम्।
TBD.
–
936 अन्ववतप्ताद्रहसः। अनु अव तप्त एतेषां समाहारद्वन्द्वः। एभ्यः परो यो रहश्शब्दस्तस्मादच्स्यादित्यर्थः। रहः-अप्रकाशप्रदेशः। अनुरहसमिति। अनुगतं रह इति विग्रहः। अवरहसमिति। अवहीनं रह इति। विग्रहः। उभयत्र प्रादिसमासः। तप्तरहसमिति। तप्तं रह इति विग्रहः। प्रतेरुरसः। सप्तम्यर्थे द्योतकतया वर्तत इति सप्तमीस्थम्। सप्तम्यर्थद्योतकात् प्रतेः परो य उरश्शब्दस्तस्मादच् स्यादित्यर्थः। उरसीति। अनेन यदुच्यते तदेव प्रत्युरसमित्यनेनोच्यत इत्यर्थः। सप्तम्यर्थद्योतकः प्रतिः। तस्य विभक्त्यर्थे विद्यमानस्य `अव्ययं विभक्ती'त्यादिनाऽव्ययीभाव इति भावः।
812 अन्वव। इह `रहः 'इत्यप्रकाशमुच्यते। `अनुगतमवहीनं च रहः'इति प्रादिसमासः, `अनुगतं रहोऽस्मिन्नि'त्यादिबहुव्रीहिर्वा। प्तरहसमिति। `तप्तं च तद्रहश्चे'ति विग्रहः। परेणानधिगम्यमित्यर्थः। इत्यतः प्रागिति। `प्राग्बहुव्रीहिग्रहणं कर्तव्य'मिति वार्तिकोक्तेरिति भावः।
TBD.