Table of Contents

<<5-4-72 —- 5-4-74>>

5-4-73 बहुव्रीहौ सङ्ख्येये डजबहुगणात्

प्रथमावृत्तिः

TBD.

काशिका

सङ्ख्येये यो बहुव्रीहिर् वर्तते तस्मादबहुगणान्तात् डच् प्रत्ययो भवति। सङ्ख्ययाव्ययासन्न इति यो बहुव्रीहिः तस्य इदं ग्रहणम्। उपदशाः। उपविंशाः। उपत्रिंशाः। आसन्नदशाः। अदूरदशाः। अधिकदशाः। द्वित्राः। पञ्चषाः। पञ्चदशाः। सङ्ख्येये इति किम्? चित्रगुः। शबलगुः। अबहुगणातिति किम्? उपबहवः। उपगणाः। अत्र स्वरे विशेषः। डच्प्रकरणे सङ्ख्यायास् तत्पुरुषस्य उपसङ्ख्यानं कर्तव्यं निस्त्रिंशाद्यर्थम्। निर्गतानि त्रिंशतः निस्त्रिंशानि वर्षाणि देवदत्तस्य। निश्चत्वारिंशानि यज्ञदत्तस्य। निर्गतस्त्रिंशतो ऽङ्गुलिभ्यो निस्त्रिंशः खड्गः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

842 अथ बहुव्रीहावसाधारणसमासान्तानाह–बहुव्रीहौ। सङ्ख्येये यो बहुव्रीहिरिति। `सङ्ख्ययाव्यये'ति विहित' इति शेषः। तस्मादिति। बहुव्रीहाविति। पञ्चम्यर्ते सप्तमीति भावः। डच्स्यादिति। समासान्तस्तद्धितश्चेति ज्ञेयम्। उपदशा इति। दशानां समीपे ये सन्तीति विग्रहः। `सङ्ख्ययाऽव्यये'ति बहुव्रीहिः। सुब्लुक्। उपदशन्शब्दाड्डचि `नस्तद्धिते' इति टिलोपः। उपबहवः। उपगणा इति। बहूनां समीपे ये सन्तीति, गणस्य समीपे ये सन्तीति च विग्रहः। `बहुगणवतुडति सङ्ख्ये'ति सङ्ख्यात्वात् `सङ्ख्ययाव्यये'ति समासः। अबहुगणादिति निषेधान्न डच्। ननूपगणा इत्यत्र डचि सत्यसति च रूपसाम्या\उfffद्त्क तन्निषेधेनेत्यत आह–स्वरेविशेष इति। डचि सति `चित' इति अन्तोदात्तत्वं स्यादित्यर्थः। सङ्ख्यान्तत्पुरुषस्य समासान्तो डज्वक्तव्य इत्यर्थः। नि\उfffद्स्त्रशानीति। `निरादयः क्रान्ते'ति तत्पुरुषः, डच्, `टे'रिति टिलोपः। तिं?रशतोऽधिकानीति यावत्। नि\उfffद्स्त्रश इति। समासादि पूर्ववत्। तिं?रशदधिकाङ्गुलिरित्यर्थः। न च गवां विंशतिर्गोविंशतिरित्यत्रातिप्रसङ्गः शङ्क्यः, `अव्ययादे'रिति विशेषणादिति भाष्ये स्पष्टम्। नचैकाधिका विंशतिरेकविंशतिरित्यत्र `सङ्ख्ययाव्यये'ति समासे सति `बहुव्रीहौ सङ्ख्येये' इति डच्शङ्क्यः, `अन्यत्राधिकलोपा'दिति वार्तिकादित्यास्तां तावत्।

तत्त्वबोधिनी

738 बहुव्रीहौ सङ्ख्येये। व्यत्ययेन पञ्चम्यर्थे सप्तमीत्याह—यो बहुव्रीहिस्तस्मादिति। `उपगणा'इत्यत्र डचि सत्यसति च रूपे विशेषो नास्तीत्यत आह– स्वरे विशेष इति। डचि सति `चितः' इत्यन्तोदात्तत्वं स्यात्, असति तु पूर्वपदप्रकृतिस्वर इत्यर्थः। न च सत्यपि डचि परत्वात्पूर्वपदप्रकृतिस्वर एव स्यादिति शङ्क्यमं, `चितः'इति स्वरस्य सतिशिष्टत्वात्, डचश्चित्करणस्य वैयथ्र्यापत्तेश्च। सङ्ख्यान्तस्य तत्पुरुषस्य चरमावयवो डज्वक्तव्य इत्यर्थः। `एकविंशति'रित्यादौ तु न भवति, `अन्यत्राधिकलोपा'दिति वार्तिककारोक्तेः।

Satishji's सूत्र-सूचिः

TBD.