Table of Contents

<<5-4-71 —- 5-4-73>>

5-4-72 पथो विभाषा

प्रथमावृत्तिः

TBD.

काशिका

नञः परो यः पथिन्शब्दः, तदन्तात् तत्पुरुषात् समासान्तो विभाषा न भवति। पुर्वेण नित्यः प्रतिसेधः प्राप्तो विकल्प्यते। अपथम्, अपन्थाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

969 पथो विभाषा। पथ इति। पथिन्शब्दादित्यर्थः। अपथिमिति। न पन्था इति विग्रहे नञ्तत्पुरुषः।`ऋक्पूः' इत्यप्रत्यये सति `नस्तद्धिते' इति टिलोपः। `पथः सङ्ख्याव्ययादे'रिति नपुंसकत्वम्। अपन्था इति। अप्रत्ययाऽभावे रूपम्। तत्पुरुषादित्येवेति। अनुवर्तत एवेत्यर्थः। अपथो देश इति। अविद्यमानः पन्था यस्येति विग्रहः। बहुव्रीहित्वात् `ऋक्पू'रित्यप्रत्ययस्य न पाक्षिकोऽपि निषेधः।

तत्त्वबोधिनी

825 अपथं वर्तत इति। अर्थाऽभावेऽव्ययीभाव।\र्\निति सकलसमाससाधारणाः समासान्ताः।\र्\निति तत्त्वबोधिन्यां समासान्तप्रकरणम्॥

Satishji's सूत्र-सूचिः

TBD.