TBD.
अञ्चत्यन्तात् प्रातिपदिकातदिक्ष्त्रियां वर्तमानात् स्वार्थे विभाषा खः प्रत्ययो भवति। प्राक् प्राचीनम्। अर्वाक्, अर्वाचीनम्। अदिक्ष्त्रियाम् इति किम्? प्राची दिक्। प्रतीची दिक्। दिग्ग्रहणं किम्? प्राचीना ब्राह्मणी। अवाचीना। स्त्रीग्रहणं किम्? प्राचीनं दिग्रमणीयम्। उदीचीनं दिग्ररमणीयम्।
TBD.
–
विभाषाञ्चेरदिक्स्त्रियाम्। अदिक्?स्त्रियामिति कर्मधारयगर्बो नञ्तत्पुरुषः। तदाह- -अदिक्स्त्रीवृत्तेरिति। प्रागिति। `अञ्चेर्लु'गिति लुप्ताऽस्तात्यन्तमिदम् प्राचि देशे इत्यर्थे। प्राचीनमिति। खान्तमिदं स्वभावादाधेयपरम्। स्वभावादेव सामान्ये नपुंसकमेकवचनान्तत्वं च। इदं तु पदसंस्कारपक्षे। वाक्यसंस्कारपक्षे तु प्रागादिशब्देभ्यः समभिव्याह्मतदेशकालस्थवृक्षादिबोधकेभ्यः खः। तत्र उपस्थितविशेष्यलिङ्गत्यागे मानाऽभावात् `प्राचीना आम्रा', `प्राचीना वाटी' `प्राचीनं वन'मिति भवतीत्याहुः। अर्वन्तमञ्चतीति वक्ष्यन्नर्वच्छब्दं विवृणोति– निकृष्टेति। अमरवाक्यमिदम्। प्राची दिगिति। लिङ्गविशिष्टपरिभाषया प्राप्तिः। दिग्ग्रहणं किमिति। `अस्त्रिया'मित्ये तावतैव प्राची दिगित्यत्रातिप्रसङ्घनिराशा\उfffद्त्क तेनेति प्रश्नः। अव्याप्तिपरिहारार्थमित्याह–प्राचीना ब्राआहृणीति। नेयं दिग्रूपा स्त्री, किंतु तद्भिन्ना स्त्रीति खो भवत्येवेति भावः। स्त्रीग्रहणं किमिति। `अदिशी'त्येतावतैव प्राचीना ब्राआहृणीत्यत्राऽव्याप्तिनिरासात्प्रश्नः। इदमप्यव्याप्तिपरिहारार्थमित्याह–प्राचीनं ग्रामादाम्रा इति। स्थानिवत्सूत्रभ#आष्येऽयं प्रयोगः स्थितः। अत्र प्राच्यां दिशीत्यर्थे लुप्ताऽस्तात्यन्ता प्रागिति प्रकृतिः। स च अव्ययत्वादस्त्रीति खो भवेत्येववेति भावः।
1548 विभाषाञ्चेर। दिक् चासौ स्त्री चेति दिक्?स्त्री, तत्र प्रतिषेधो, न तु दिशि, स्त्रियां च, स्त्रीलिङ्गैकवचननिर्देशात्। प्राचीनमिति। `अचः'इत्यकारलोपे कृते `चौ' इति दीर्घः। एवमग्रे क्वचिदूह्रम्। प्राचीना ब्राआहृणीति। प्रकर्षेंणाञ्चतीति प्राचीनेत्येवं क्रियानिमित्तको वा, देशकालनिमित्तको वा अयं शब्दो ब्राआहृण्यां वर्तते, न तु दिशीति प्रतिषेधाऽभावः। प्राचीनमिति। प्राच्यां दिशीत्यर्थे `दिक्शब्देभ्यः'इत्यस्तीतिः `अञ्चेर्वु'गिति लुक्। `लुक्तद्धितलुकी'ति ङीपो लुक्। `तद्धितश्चाऽसर्वविभक्ति'रित्यव्ययत्वात् स्त्रीत्वाऽबावः। खे तु कृते स्वभावान्नपुंसकत्वम्।
TBD.