Table of Contents

<<5-4-65 —- 5-4-67>>

5-4-66 सत्यादशपथे

प्रथमावृत्तिः

TBD.

काशिका

कृञः इत्येव। सत्यशब्दातशपथे डाच् प्रत्ययो भवति कृञो योगे। सत्यशब्दो ऽनृतप्रतिपक्षवचनः। क्वचित् तु शपथे च वर्तते, सत्येन शापयेद् द्विजम् इति, तस्य अयं प्रतिषेधः। सत्याकरोति वणिक् भाण्डम्। मयैतत् क्रेतव्यम् इति तथ्यं करोति। अशपथे इति किम्? सत्यं करोति ब्राह्मणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

सत्यादशपथे। `डा'जिति शेषः। सत्याकरोति भाण्डमिति। रत्नादिद्रव्यजातमित्यर्थः। सत्यशब्दोऽत्र तथ्ये वर्तते। `सत्यं तथ्यमृतं सम्य'गित्यमरः। क्रेत्वयमितीति। `एतावतैव मूल्येनेदं क्रयणार्हं नातोऽधिकमूल्येने'त्येवं यथाभूतार्थं वदतीत्यर्थः। सत्यंकरोति विप्र इति। शपथं करोतीत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.