Table of Contents

<<5-4-64 —- 5-4-66>>

5-4-65 शूलात् पाके

प्रथमावृत्तिः

TBD.

काशिका

कृञः इत्येव। शूलशब्दात् पाकविषये डाच् प्रत्ययो भव्ति कृञो योगे। शूले पचति शूलाकरोति मांसम्। पाके इति किम्? शूलं करोति कृदन्नम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

शूलात्पाके। `डा'जिति शेषः। शूलाकरोतीति। अत्र करोतिः पाके वर्तते। तदाह–शूलेन पचतीत्यर्थ इति।

तत्त्वबोधिनी

1587 शूलात्पाके। पाके किम्?। शूलं करोति कदन्नं। शूलमुदररोगः। सत्सु साधु सत्यम्। `तत्र साधु'रिति प्राग्घितीयत्वाद्यति प्राप्ते अतएव निपातनाद्यः। अन्तोदात्तोऽयम्। `सत्येनोत्तभिता भूनिः' `ऋतं च सत्यं चे'त्यत्र तथा दर्शनात्। सत्याकरोतीति। भाण्डं—-रत्नादिद्रव्यजातम्। क्रेतव्यमिति। `मयैवैतद्ग्राह्र'मिति बुद्द्या परीक्षादिना, सत्यङ्कारद्रव्यप्रदानेन च दृढं करोतीत्यर्थः। तथ्यमिति। तथैव तथ्यम्। `पादार्घाभ्यां च'इति चकारस्यानुक्तसमुच्चयार्?थत्वात्स्वार्थे यत्।

Satishji's सूत्र-सूचिः

TBD.