Table of Contents

<<5-4-62 —- 5-4-64>>

5-4-63 सुखप्रियादानुलोम्ये

प्रथमावृत्तिः

TBD.

काशिका

सुखप्रियशब्दाभ्याम् आनुलोम्ये वर्तमानाभ्यां कृञो योगे डाच् प्रत्ययो भवति। आनुलोम्यम् अनुकूलता, आराध्यचित्तानुवर्त्तनम्। सुखाकरोति। प्रियाकरोति। स्वाम्यादेः चित्तमाराधयति इत्यर्थः। सुखं प्रियं वा कुर्वन्नप्यानुलोम्ये ऽवस्थित एवम् उच्यते। आनुलोम्ये इति किम्? सुखं करोति, प्रियं करोति औषधपानम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

सुखप्रियादानुलोम्ये। सुखशब्दात्प्रियशब्दाच्च आनुलोम्ये गम्ये डाच् स्यादित्यर्थः। आराध्यगुर्वादिचित्तानुवर्तमानुलोम्यम्। सुखाकरोति प्रियाकरोति गुरुमिति। चित्तानुवर्तनेन गुरु' सुखसंपन्नं प्रयसंपन्नं च करोतीत्यर्थः। तदाह– अनुकूलेति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.