Table of Contents

<<5-4-61 —- 5-4-63>>

5-4-62 निष्कुलान् निष्कोषणे

प्रथमावृत्तिः

TBD.

काशिका

कृञः इत्येव। निष्कुलशब्दात् निष्कोषने वर्तमानात् कृञो योगे डाच् प्रत्ययो भवति। निष्कोषणम् अन्तरवयवानां बहिर्निष्कासनम्। निष्कुलाकरोति पशून्। निष्कुष्णाति इत्यर्थः। निष्कोषणे इति किम्? निष्कुलान् करोति शत्रून्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

निष्कुलान्निष्कोषणे। `डा'जिति शेषः। निष्कोषणम्–अन्तर्गतावयवानां बहिःकरणम्। निष्कुलाकरोति दाडिममिति। निर्गतं कुलं यस्मादिति बहुव्रीहिः। कुलशब्दश्च अन्तरवयवसमूहे वर्तते। तदाह–निर्गतमित्यादि।

तत्त्वबोधिनी

1585 निष्कुलात्। निष्कोषणमन्तरवयवानां बहिर्निष्कासनम्। निष्कोषणे किम्?। निष्कुलं करोति शत्रुम्।

Satishji's सूत्र-सूचिः

TBD.