Table of Contents

<<5-4-60 —- 5-4-62>>

5-4-61 सपत्रनिष्पत्रादतिव्यथने

प्रथमावृत्तिः

TBD.

काशिका

कृञः इत्येव। सपत्रनिष्पत्रशब्दाभ्याम् अतिव्यथने डाच् प्रत्ययो भवति कृञो योगे सति। अतिव्यथनम् अतिपीडनम्। सपत्राकरोति मृगं व्याधः। सपत्रं शरमस्य शरीरे प्रवेशयति इत्यर्थः। निष्पत्राक्रोति। शरीराच्छरमपरपार्श्वे निष्क्रामयति इत्यर्थः। अतिव्यथने इति किम्? सप्त्रं वृक्षं करोति जलसेचकः। निष्पत्रं वृक्षतलं करोति भूमिशोधकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

सपत्र। सपत्रशब्दान्निष्पत्रशब्दाच्च अतिव्यधने डाजित्यर्थः। `व्यध ताडने'चतुर्थान्तः। अतिक्रम्य वेधः। अतिव्यधनम्। लक्ष्ये शराः पतन्त्यनेनेति पत्रं=शराणां पुङ्खगतो बर्हः। भूतलमिति। `पुङ्खपर्यन्तं पुङ्खवर्जं वा शरप्रवेशनेन सपत्र' `निष्पत्र'वा भूतलं करोतीत्यर्थः।

तत्त्वबोधिनी

1584 सपत्त्रनिष्पत्त्रात्। लक्ष्ये शराः पतन्त्यनेनेति पात्त्रम्=शराणां पुङ्खगतो बर्हः। सपत्त्रं निष्पत्त्रं वा करोतीति। पत्त्राणि=पर्णानि तत्सहितं तद्रहितं वेति यथा सम्भवमर्थः।

Satishji's सूत्र-सूचिः

TBD.