Table of Contents

<<5-4-59 —- 5-4-61>>

5-4-60 समयाच् च यापनायाम्

प्रथमावृत्तिः

TBD.

काशिका

कृञः इत्येव। कृषौ इति निवृत्तम्। कर्तव्यस्यावसरप्राप्तिः समयः, तस्य अतिक्रमणं यापना। समयशब्दाद् यापनायां गम्यमानायां डाच् प्रत्ययो भवति कृञो योगे। समयाकरोति। समयं यापयति, कालक्षेपं करोति इत्यर्थः। यापनायाम् इति किम्? समयं करोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

समयाच्च। कृषाविति निवृत्तम्। समयशब्दाद्यापनायां गम्यमानायां डाजित्यर्थः। समयाकरोतीति। करोतिरिह यापनायामित्याह–यापयतीति।अतिक्रान्तं करोतीत्यर्थः। `अद्येदं कर्तव्य'मित्युक्ते विघ्नं कञ्चिदापाद्य कालक्षेपं करोतीति यावत्।

तत्त्वबोधिनी

1583 समाच्च। कालं यापयतीत्यर्थ इति। `कर्तव्यस्याऽवसरप्राप्तिः समयस्तस्यातिक्रमणं यापना'इति वृत्तिग्रन्थमुपादाय हरदत्तत आह—-`अद्य मे पारवस्यं, \उfffदाः पर\उfffदाओ वा अस्य समय इत्येव बहुषु दिवसेषु य आह स एवमुच्यते'इति।

Satishji's सूत्र-सूचिः

TBD.